________________
।।१०५॥
अथ स्वर्गापवर्गसाधनोपायभूतं जिनार्चनमेव प्रतिपादयलाह
नरिददेवेसरपूइयाणं, पूर्य कुणतो जिणचेइयाणं ।
दवेण भावेण सुहं चिणेइ, मिच्छत्तमोहं तह निज्जिणेइ ॥१२॥ व्याख्या-नरेन्द्रा राजाना देवेश्वराश्नेन्द्रास्तैः पूजितानामचितानां पूजां कुर्वाणः श्रीजिनचैत्यानां जयन्ति रागादीनिति जिनास्तेषां चैत्यानि चेतःप्रमोदजनकानि प्रतिमालक्षणानि तेषां द्रव्येण गन्धधुपपुष्पादिना, अथ च भावेनोग्रविहाराज्ञापालनादिना शुभं कर्म चिनोति श्राद्धः साधुर्वा, अत्र कर्ताऽनुक्तोऽपि स्वयमभ्यू ह्यः कर्तव्यबलात् । मिथ्यात्वमोहनीयं कर्म सभा निर्भरयति जी कीतीत्वकारार्थः । यथाऽन्नाजीर्ण भस्मार्कवडवानलगुटिकाभक्षणादिना जीर्यते तथा कर्माजीणमपि जिनाचनमन्तरेण नो जिनार्चनेन भज्यत इति भावार्थः ॥ यदुक्तं श्री महानिशीथे
"पुणो विवीयरागाणं पडिमाओ चेइयालए। पत्तेयं संथणे वंदे एगग्गो भत्तिनिन्भरं ॥१॥ तेसि तिलोगमहियाणं धम्मतित्थंकराण जगगुरूणं । दव्यच्चणभावच्चणभेदेण दुहाच्चणं भणियं ॥२॥ भावच्चणमुग्गविहारया य दव्वच्चणं तु जिणपूया । पढमा जईण दुन्निवि गिहीण पढमच्चिय पसत्था ॥३॥"
यतेविधा शुद्धया यच्चारित्रकष्टानुष्ठानद्वाविंशतिपरीषहाद्य पसर्गसहनं तत्सर्वं भावार्चनाधिकाररूपं बोद्धव्यं । श्राद्धः शुचिर्भूत्वा गन्धाम्भसा जिनप्रतिकृती: प्रक्षाल्य कषायाम्बरेण वपुर्लषयित्वा सञ्चन्दनकुसुमस्रगाद्य यंदहद!पक्रमं विधत्ते, तत्सर्व द्रव्यार्चानुगत मन्तव्यं । अत्रार्थे श्रीरत्नचन्द्रोदाहतिरुदाहियते--