________________
उपदेश
॥१०२॥
भ्रामित इत्युक्तेऽसावाह श्यामास्यभाक् क्षणत एव । एवमिति प्रतिपाद्य प्राप स्वं धाम सविषादः ||४१|| तद्वीक्ष्योद्घटितकपाटसंपुटं मानसेऽतिसंभ्रान्तः । यावदपश्यत्तुरगस्थानं तावत् पथश्रान्तम् ||४२ ॥ हरिमाकलय्य सहसा हर्षविषादद्वयीसमाश्लिष्टः । चिन्तितवानिति सम्मतिरहो छलं धर्ममार्गेऽपि ||४३|| ध्रुवमस्त्यगण्य पुण्याभ्युदयो मे कवनाप्यनिर्वाच्यः । व्यपहृत्य पापबुद्धद्या व्यमोचि यज्ञ्जात्ययरत्नम् ||४४ || यद्यम्भसि दाहकता सूर्याम्युपदेऽपि प्रतिमिरं स्यात् । चन्द्रङ्गारकवृष्टिस्तत्कि करणीयमत्रार्थे ॥ ४५ ॥ ईपि धार्मिकत्वं धृत्वा कृत्वा च तीव्रतरमायाम् । दुष्कर्मेहकर्त्ता धर्ता कस्तत्र द्वितयम् ||४६|| परमेष एव सुष्ठु श्लाघ्योऽनर्थ्यो रुसद्गणस्तार्क्ष्यः । येनात्पथेन पादा न धृतास्ततजतेनापि ॥४७॥ सुष्ठुतरमिति विदित्वा नत्वाऽभिज्ञः सदैव जिनदासः । तमपालयत्प्रयत्नात्सुसाधुरिव सत्त्वसंघातम् ॥१४८॥ अथोपनयः-
यथा स जात्यस्तुरगो न यातः कुमार्गमात्यन्तिकताडनेऽपि ।
तथा न शुद्धाध्वन उत्तमानां, कदापि हि स्यात्स्खलनाऽल्पकापि ॥ ४९ ॥ अत्र जात्याश्वकल्पाः साधवः श्राद्धा वा । अथ च मिथ्यात्वान्धकारभरः सर्वत्र प्रसृतोऽस्ति । तत्र ये शुद्धमार्गाच्छुद्धदर्शनरूपान्न चलन्ति न भ्रान्तिभाजो भवन्ति त एव श्लाघास्पदं भवन्तीति भावार्थः ॥ ।। इति जात्याश्वदृष्टान्तः शुद्धमार्गावरणोपरि ॥
सप्त
।। १०