________________
|१०१।।
स्वानादिदेश परिकरनरानरं सादरस्तदन्वेषः । सजीभवन्तु भो भो मजनभोजनविधावस्य ॥२७॥ भक्त्युत्तरकालमथो विकथोपरतो जिनेन्द्रसाधुकथाम् । कुर्वन्तावनवरतं तस्थतुरेतौ सुखेनैव ।।२८।। जिनदासस्वजनकुले भुञ्जानः स्वेच्छया स तुच्छात्मा । छलमीक्षतेऽश्वहरणे दुग्धास्वादे यथौतुरिह ।।२९।। सपरिकरः स श्राद्धस्तन्मधुरालापलालसमनस्कः । तं कपटिनमाचष्टे समानधर्माऽस्यहो त्वं यत् ॥३०11 तस्माद्धोक एप सुरक्षितः स्याद्यथा तथा कार्यम् । न हि मोक्तव्यः शिथिल: कमप्यहं थाम्यहो ग्रामम् ।।३१॥ आयात एव भवता सञ्जीभत्र ता तुरङ्गरक्षार्थम् । द्रष्टव्य इत्युदित्वा स्वयं बहिनिर्जगाम गृहात् ॥३२॥ कौमुद्य त्सव आसीत्तस्मिन्समये समस्तपुरलोकः । निशि ररमीति सुचिरं ततः प्रहृष्टः स दुष्टात्मा ।।३३।। यम इव जीवितमङ्गादगारतस्तुगरत्नमपहृत्य । प्रस्थितवानहहाध्यं धिग्धिग्यिश्वरतधातित्वम् ॥३४॥ निर्गत्य ततस्तरसा सहसा साहसिकपाश आयातः । आरुह्य यावदश्वं जिनसोपान्तिकं तावत् ।। ३५।। तत्परितत्रिः कृत्वा प्रदक्षिणां तेन वार्यमाणोऽपि । कासारं प्रत्यचलत् स्वभ्यस्तं विस्मृति किमिह याति ।।३६॥ तस्मात् पश्चावले वलेन जिनधाम यावदस्माच । निजगृहमागाद्वेगादहो सुशिष्यत्वमिदमीयम् ॥३७॥ दृष्टपथादन्यस्मिन् यातुं नैच्छत् स सर्वथा तुरगः । तेन प्रणोदितोऽपि हि ततः स निविणहृन्मुक्त्वा ।।३८।। तं धनिकवेश्मनि द्राक् स्वयं प्रणश्य प्रयातवान् दम्भी । नापुण्यप्रगुणनृणामाशाः प्राप्तावकाशाः स्युः ३३९।। अत्रान्तरे दिनोदयसमये समियाय वेश्म जिनदासः । तावज्जगदुः पौराः समग्ररजनी त्वयाऽद्याश्वः ।।४।।