________________
॥१९॥
। जात्याश्वदृष्टान्तः ।। आस्तेऽत्रैव हि भरते वसन्तपुरपत्तनं प्रमोदिजनम् । कौसुम्भवत्रभारैर्यत्र बसन्तः सदा वसति ॥१॥ तत्र यथार्थाह्वयभाग्जितशत्ररिति क्षितीश्वरो जयति । यस्य यशःशशिमण्डलमुज्ज्वलमुद्योतते विश्वे ॥२॥ तस्य सखा प्रास्तमषाभाषाख्यानो जिनोक्तधर्मज्ञः । जिनदास इति श्राद्धः सश्रद्धः सत्यनामासीत ॥३॥ तत्रान्यदाऽश्वपालरश्वाली सुन्दरा समानीता । प्रीता सर्वा परिषन्नपतिस्तल्लक्षणाभिज्ञान् ॥४॥ आह्वाय्यापृच्छदहो कीदृग्लक्षणधरा इमे तुरगाः । तेरे कोऽश्व किशोरः सगुणः परिवर्णयामासे ।।५।। राज्याभिवृद्धयेऽसावित्याकांग्रहान्नृपो जगृहे । स्वगृहेऽबन्धि स नीत्वा दत्त्वा तद्रव्यमसमानम् ।।६।। तदनु व्यचिन्ति चित्ते वित्तेनंतावता गृहीतोऽश्वः । परमेतदीयरक्षा दक्षात्मतया विधातव्या ॥७॥ न हि जिनदासादन्यो विज्ञोऽत्रार्थे मतो वयस्यो मे । स तु विश्वासंकगृहं सुनिःस्पृहः परधनग्रहणे ॥८॥ अस्थापयदिति गत्वा सत्त्वाधिक्रमेतमश्वरक्षार्थम् । राज्यसर्वस्वमेष प्रपालनीयस्त्वयेत्युक्त्वा ।।९।। प्रतिपद्यादेशमसाबसाधुना त्यक्तवाङ्गम्नोवृत्तिः । तकिङ्करपरितं तुरगं निन्ये निज धाम ॥१०॥ स्वयमेवास्मै यच्छति स धृतगुडग्रासचणकदाल्यादि । पाययति च पानीयं सरोवरे पृष्ठमारहा ।।११॥ अस्ति जिनस्यायतनं पुरातनं पुरसरोविचालावे । सरसि वजन जिनौकः प्रदक्षिणीकृत्य नित्यमसौ ॥१२॥ अश्वस्थ एव देवान् वन्दित्वा याति पाति जात्यश्वम् । मनमपहृत्य कश्चिद्वजतीति हृदन्तरे ध्यायन ॥१३॥