________________
उपदेश
॥९६॥
त्वं तूर्णं दूरतो याहि येनैष चलति स्वयम् । ततस्तदभ्यर्थनया मुमुचेऽसौ सुमुत्कलः ||२१|| ततो दृष्टभयेाद्भ्रान्तः प्रपेदे धर्ममार्हतम् । व्रतानि सम्यगाराध्य कृतभक्तविवर्जनः ॥२२॥ पानशनस्तः मान्मृत्वा दिविषदादिमे । स्वर्गेऽभूज्जैनधर्मो हि सुरदुरिव सौख्यदः ||२३|| तिर्यग्गनिवार्येष पित्रा पुत्रः सुरीकृतः । जैनधर्मप्रदानेनासी मशमं विधायिना ||२४|| यथा तेन कृता तृष्णा कृष्णाहिरिव भीषणा । दीक्षामपि प्रपद्येवं विधातव्यं न धीधनैः ||२५|| ।। इति भोगपिपासोपरि द्विजसुतष्टान्तः || "डिजए नेव परस्स आसत्ति" तृतीयपदं कथ्यते - परस्यान्यस्याशा वाञ्छा न खण्डद्यते । यत उक्तं-- "देयं स्तकादपि स्तोकं न व्यपेक्ष महोदयः । इच्छानुकारिणी शक्तिः कदा कस्य भविष्यति ||१|| वसहीसयणासणभत्तपाणां वत्थपत्ताई । जइवि न पचत्तधणं योया वि हु थोवयं देव || २ || बोधयन्ति न याचन्ते, भिक्षाहारा गृहे गृहे । दीयतदीयतां वानमदत्तफलमीदृशम् ||३||” एतदुपरि दृष्टान्तो यथा-
|| नरवाहनकथा ॥
मालवेषु विशालायां विशालायां श्रियां भरैः । आसीत्सविक्रमोद्दण्डदोर्दण्डो विक्रमाधिपः ||१|| तस्यान्यदास्थानसभासीनस्याहीन संपदः । भट्टः कोऽपि समागत्य नरवाहनभूपतेः ॥२॥ चकार सद्गुणश्लाघां तां निशम्याथ विक्रमः । प्राह किं भोः समस्त्येष मत्तोऽप्यधिकसद्गुणः ||३||
सप्तनिका
॥९६॥