________________
न हि धर्मेण मे कार्य धनेनैव प्रयोजनम् । मत्वाऽसी निर्जगामाशु सह्वासिपुरं ययौ ॥७॥ ज्ञातो द्विजातिभिः सर्वैरमुकस्यायमात्मजः । कस्यचित्सदने तस्थौ दौस्थ्ये ज्ञाति: सुखङ्करः ।।८।।
कश्चिदौ निजां कन्यां तस्मै तत्सद्मनः पुनः । कुरुते सर्वकृत्यानि परं भागेषु लालसः ॥९॥ ॥९५|| कदाऽहं सप्रियः स्वरं भृशं वैषयिकं सुखम् । सेविष्ये मानसे ध्यायन्निति यावत्स तिष्ठति ।।१०।।
यावद्विवाहवेलागादकस्मात्ताबदञ्जसा । घाटी पपात भिल्लानां तया तन्मिथुनं हतम् ।।११।। रास भोगस्पृहया मृत्वा तीवार्तध्यानवानिति । संजज्ञे महिषः क्वापि ग्रामे ग्रामेय कालये ।।१२।।
उपचर्य परिव्रज्यामेतस्य जनकः पुनः । दिवि देवत्वमापेदे सस्मार प्राग्भवं निजम् ।।१३।। P नन्दनं सैरभीभूतमवगम्यावधेर्बलात् । तत्रागाद्रुतमेवैष रूपं शौकरिकं दधत् ॥१४॥
क्रीत्वा तं गोदहः पाअिधान लकुटादिभिः । भृत्वा दुर्वहभारेण तं स्थलोयामचालयत् ।।१५।। ततः साधुपितू रूपं कृत्वात्मानमदर्शयत् । देवः कारुण्यमाधाय सुतस्य हितकाम्यया ॥१६॥ पश्यतस्तादृशं रूपं चिन्ता चेतस्यजायत । दृष्टपूर्व मयेदृक्षं क्वापि रूपं पुरा भवेत् ।।१७।। तदावरणदुष्कर्मक्षयोपशमलाभतः । जातिस्मृतिरथोत्पेदे लुलायस्य शुभोदये ॥१८॥ ततः स्वभाषयाऽरावीत्तात मामव दुःखतः 1 ततस्तञ्जनकोऽवादीद्रे रे शौकरिकाधम ॥१९॥ मैवं भारय निःशंकं क्षुल्लकोऽयं मदङ्गभूः । ततो माहिषिकोऽबून शृणोति न भवद्गिरम् ॥२०॥