________________
१९३॥
यदि पतति सप्तमेऽस्माघस्रेऽवश्यं भवन्मुखे विष्टा । दुर्गन्धेन निकृष्टाऽनिष्टा सत्यं तदेदं भाः ॥१४॥ दुष्टो रुष्टोऽवादीत्ततः स दत्तः कथं भवन्मृत्युः । गुरुराख्यत्सुचिरमहं संयममाराध्य शुद्धधिया ।।१५।। यातास्मि देवलोक सश्लोकं सर्वदापि निःशोकम् । श्रुत्वेति रुषितचेताः प्रताधिष्ठित इवारुणदृक् ।।१६॥ युग्मम्।। वाडव एवमवादीन्महाविषादी स्वकीय मृत्युभयात् । एनं रुन्द्ध विरोधिनमहो भटा उत्कटास्तूर्णम् ।।१७।। हरुधूस्तेऽपि तदुक्या स्वयं जगामैष रोषण: स्वपुरीन् । उ५ पौरा: प्रच्छन्नं चिरंतनं नृपतिमाजुहवः ॥१८॥ बयमेनं निद्धि दृढबन्धनबद्धमाशु दास्यामः । इत्यवगम्य स राजा गततया तीरगस्तथी ॥१९॥ विस्मारितदिवसोऽसावसावधानत्वतः सुखावेशात् । सप्तमदिने दिनेशितुरुदये न दयेरितः क्वापि ॥२०॥
राजपथं संशोध्य स्वमानुषस्तत्र रक्षकान्मुक्त्वा । सप्तमवासरसमये विनिर्ययौ यतिविनाशार्थम् ।।२१।। | अत्रान्तरे प्रभातप्राया यावत्तमी समस्ति तदा । कुसुमकरण्डकहस्तः प्रविशति नगरीमरीणजनाम् ॥२२॥
कोऽपि हि पुष्पाजीवी कृतवानुच्चारमुदरचलनेन । तदुपरि पुष्पान् क्षिप्त्वा स्वयं ननाशेष तस्करवत् ।।२३।। निर्गच्छन् यावदयं पुरात्तरस्वी तुरङ्गमारुढः । तत्रायातस्तावत्तुरगखुरोत्खातमुच्छलितम् ।।२४।।
IN९३।। तदशचि तन्मखविवरं प्रविवेश गरोविनिग्रहे भाषा । येनाभाष्यत परुषा तत्र हि यूक्तस्तदापातः ॥२५।। युग्मम ।। वदनेऽनिष्टा विष्टा यदा निविष्टाऽस्य गुरुभिरुपदिष्टा । ववले बलेन समया रयानिज धाम स जगाम ॥२६॥ तावत्प्रधानपुरषरबन्धि दृढबन्धननिगृह्य घनैः । आनीय पूर्वभूपः स्वस्थाने स्थापयामासे ।।२७।।