SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ स्वामी च प्रययौ चस्पां वर्षारात्रं तृतीयकम् । तत्र चाऽस्थात् प्रतिज्ञातद्विमासक्षपणद्वयः ॥ ४२६ ॥ कायोत्सर्गेणोत्कटिकादिभिस्तैस्तैरथासनैः । तस्थौ मुक्त इहापि स्वामी सम्यक्समाधिभृत् ॥ ४२७ ॥ बहिः पुर्या द्वितीयं द्विमासक्षपणपारणम् । कृत्वा स्वामी सगोशालः कोल्लाकेऽगान्निवेशने ॥ ४२८ ॥ नक्तं तत्र गृहे शून्ये तस्थौ प्रतिमया प्रभुः । तद्द्वारेऽस्थात्तु गोशालो लीत्वा कपिरिवाऽस्थिरः ॥ ४२९ ॥ ता ग्रामशमनयः सिंहोऽभिनवयौवनः । विद्युन्मत्या समं दास्या रिरंसुस्तत्र चाविशत् ॥ ४३० ॥ सोsargaकैरेवं योऽत्रास्ति श्रमणो द्विजः । पाल्को वापिस आयाम देवा वयम् ॥४३१॥ कायोत्सर्गप्रपन्नत्वात्तूष्णीकः स्वाम्यभूत्तदा । तत्तु श्रुत्वापि गोशालः कपटानोत्तरं ददौ ॥ ४३२ ॥ अलब्धप्रतिवाक् सिंहश्चित्रं रेमे तया सह । क्षणं स्थित्वा निर्गन्तुं प्रावर्तत ततो गृहात् ॥ ४३३ ॥ गोशालो द्वारदेशस्थः प्रकृत्या दुर्मतिश्चलः । विद्युन्मती विनिर्यान्तीं दासीं पस्पर्श पाणिना ॥ ४३४ ॥ स्वामिन् ! स्टष्टास्मि केनापीत्युचकैर्व्याजहार सा । वलित्वा कुपितः सिंहो धृत्वा गोशालमब्रवीत् ॥४३५ ॥ अरे रे छद्मना छन्नः स्थित्वाऽनाचारमावयोः । पश्यन्नस्था भाषितोऽपि तदा नादास्त्वमुत्तरम् ॥ ४३६ ॥ इत्युक्त्वा कुयित्वा तं सिंहः स्वस्थानमभ्यगात् । गोशालः स्वामिनं स्माह पश्यतां वो हतोऽस्म्यहम् ४३७ सिद्धार्थोऽथावदच्छ्रीलमस्मद्वत्किं न रक्षसि । आचरंश्चापलं चैवं द्वारस्थः किं न कुव्यसे ? ।। ४३८ ।। १ ₹ ८, , । | ॥ ७५ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy