SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सर्गः निष्क्रम्य स्वाम्यगाद ग्रामे पत्रकालेऽभिधानतः । प्राग्वञ्चास्थाच्छ्न्यगृहे निशायां प्रतिमाधरः ॥ ४३९ ॥ || तृतीयः भयान्निलीय गोशाला कोणेऽस्थात्तत्र वेश्मनि । रन्तुं दन्तिलया दास्याऽऽगात् स्कन्दो ग्रामणीसुतः ॥ ४४०॥ सिंहवद्वधाहरत् सोऽपि न च कोऽप्युत्तरं ददौ । क्रीडित्वा निर्ययो स्कन्दो गोशालोऽहसदुच्चकैः ॥ ४४१ ॥ छन्नः पिशाचवस्थित्वा हसत्युश्चैस्तु को न्विति । जल्पस्तं कुद्दयामास स्कन्दोऽगादथ वेश्मनि ॥ ४४२ ॥ गोशालोऽप्यब्रवीन्नाथं स्वामिधर्मः किमेव । नियाँ हत्यमानस्य आर्ष में पुरषे न यत् ? ॥ ४४३॥ सिद्धार्थः पुनरूचे तं भो मूर्खेवमनेकशः। अनर्थ मुखदोषेण त्वं तित्तिरिरिवाइनुषे ॥ ४४४ ।। कुमारसन्निवेशेऽगाद्भगवानथ तत्र च । चंपकरमणीयाख्योद्यानेऽभूत् प्रतिमाधरः ॥ ४४५ ॥ तत्र चासीद्धनधान्यऋद्धः कूपनयाह्वयः । कुलालः प्रियमदिरो मदिराकीटवत्सदा ॥ ४४६ ॥ तच्छालायां पार्श्वनाथशिष्यः शिष्यगणावृतः । बहुश्रुतो मुनिचन्द्राचार्य आसीत्तदा स्थितः ॥ ४४७॥ शिष्यं गच्छे स्थापयित्वा स सूरिर्वधनाभिधम् । जिनकल्पप्रतिकर्म विदधेऽत्यन्तदुष्करम् ॥ ४४८ ॥ तपःसत्त्वसूत्रैकत्वबलानां तुलनाभिदाम् । भावयन स्वं द्वितीयया सोऽन्यदाऽस्थात्समाहितः॥ ४४. ॥ इतश्चोवाच गोशालो नाथं मध्यन्दिनक्षणे । समयो वर्तते यामो भिक्षायै ग्राममध्यतः ॥ ४५० ॥ सिद्धार्थोऽयात्रवीदद्य वर्तामह उपोषिताः । गोशालस्त्वविशद् ग्रामे भिक्षाहेनोर्बुभुक्षितः ॥ ४२१॥ ॥७६॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy