SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सोऽपश्यत्पार्थशिष्यांस्तान विचित्रवसनावृतान् । पात्रादिधारिणः के नु यूयमित्यन्वयुक्त च ॥ ४५२॥ निर्ग्रन्थाः पार्श्वशिष्याः स्मो वयमित्यूचिरेऽय ते । गोशालोऽपि इसमूचे धियो मिथ्याभिभाषिणः ।।४५३|| कथं नु यूयं निग्रन्था वस्त्राविग्रन्थधारिणः। केवलं जीविकाहेतोरियं पाखंडकल्पना ॥ ४५४ ॥ वस्त्रादिसंगरहितो निरपेक्षो वपुष्यपि । धर्माचार्यों हि याहको निम्रन्थास्तादृशाः खलु ॥ ४५५ ॥ ते जिनेन्द्रमजानन्तः प्रत्यूचुर्यादृशो भवान् । धर्माचार्योऽपि ते ताहगात्तलिंगः स्वयं किमु ।। ४५६ ॥ कुभा चुक्रोश गोशालो मम धर्मगुरोर्यदि । तपस्तेजोऽस्ति तदयं दह्यतां व उपाश्रयः ॥ ४२७ ।। नेऽप्यनुवंस्त्वद्वधनान्न हि दह्यामहे वयम् । गोशालोऽपि विलक्षः सन् गत्वा स्वामिनमभ्यधात् ॥४५८॥ दृष्टा मयाऽद्य समन्था निन्दन्तो वस्तपस्विनः । दयतामाश्रमोऽसावित्याक्रुष्टं च रुषा मया ॥ ४५९ ॥ तथापि नाश्रयस्तेषामदलत मनागपि । तत्र किं कारणं ? स्वामिन्नाख्याहि परमार्थतः ॥ ४६०॥ सिद्धार्थोऽप्यवदच्छिष्याः श्रीपार्श्वस्वामिनो हि ते । तेषामुपाश्रयो हन्त त्वगिरा दह्यते कथम् १ ॥ ४६१ ॥ अत्रान्तरे निशा जज्ञे मुनिचन्द्राख्यसूरयः । उपाश्रयावहिर्भूत्वा तस्थुः प्रतिमया सदा ॥ ४६२ ।। स व कूपनयः श्रेणिभक्त पीतसुरो यहिः । मत्तो घूर्णन् समागच्छन्नाचार्यास्तानुवैक्षत ॥ ४६३ ॥ आचार्यांश्चौरबुद्ध्या तान् गृहीत्वा निर्दयं गले । निरुच्छ्वासीचकाराशु कुम्भकारो दुराशयः॥ ४६४ ॥ १स:00 ||७७॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy