SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सशर्कराज्य:रेय्या स प्रभु प्रत्यलाभयत् । चक्रुश्च पञ्च दिव्यानि तदोकसि दिवौकसः ॥ ४०० ॥ चतुर्थमासक्षपणपारणं व्यषित प्रभुः । संसारतारणं दातुः श्रद्धातुरपि जन्मिनः ॥ ४०१ ॥ इतश्च सायं गोशालः शालां हीणोऽविशच्छनैः। अपश्यन स्वामिनं लोकान् क स्वामीत्यन्वयुक्त सः॥४०॥ स्याम्युदन्तं न कोऽप्याख्यत् सोऽन्वेष्टुं स्वामिनं ततः । पर्याट सुचिरं दीनो नालन्दासन्निवेशने ॥ ४०६॥ भूयो वराक एकाकी जातोऽस्मीति विचिन्त्य सः। मुण्डयित्वा शिरस्त्यक्तवस्त्रो निरगमत्ततः॥ ४०४॥ गतश्च कोल्लाकेऽोषीद्वन्योऽयं बहुलो द्विजः । मुनौ दानाद्यस्य गृहे रत्नवृष्टिः सुरैः कृता ॥ ४०५॥ तच्छ्रुत्वाऽचिन्तयत् सोऽपि प्रभातम्तम्य हीदुभाः । पदहरोरेन जान्याय इतमन स तिष्ठति ॥ ४०६॥ एवं विमृश्य सोऽन्वेष्टुं भ्राम्यन्निपुणया दृशा । ऐक्षिष्ट स्थितमेकत्र कायोत्सर्गधरं प्रभुम् ॥ ४०७॥ स प्रणम्य प्रभु स्माह नाहं दीक्षोचितः पुरा । वस्त्रादिसंगादभवं त्यक्तसंगोऽस्मि संप्रति ॥ ४०८ ॥ प्रतिपयस्व मां शिष्यं यावज्जीव गुरुर्भव । त्वां विनेषदपि स्थातुं न क्षमः परमेश्वर !॥ ४०॥ मीरागे त्वयि का लेहो नैकहस्ता हि तालिका । स्वामिन्मन्मनः किं तु बलात्वामनुधावति ॥ ४१०॥ त्वयाभ्युपगतं स्वं तु जानाम्येष तथापि हि । स्मेरारविन्दसधीच्या दृशा मां यन्निरीक्षसे ॥ ४११ ॥ नीरागोऽपि भाव्यनर्थ तद्भवं च विदन्नपि । तद्वचः प्रत्यपादीशो महान्तः क न वत्सलाः १ ॥ ४१२ ।। गोशालेन समं स्वर्णखलाख्यं सन्निवेशनम् । प्रत्यचालीत्मभुर्मागे युगमात्रप्रदत्तदृक् ॥ ४१३ ॥ ॥७३॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy