SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्ग: गोशालो भिक्षया प्राणवृत्ति कुवन् विवानिशम् । नामुञ्चत् स्वामिनः पार्श्व स्यबुद्ध्या शिष्यतां गतः॥३८ द्वितीयमासक्षपणे स्वामी वेश्मन्युपागतः। आनन्देन गृहस्थेन ग्यायकैः प्रत्यलाभ्यन ॥ ३८८ ॥ तृतीयमासक्षपणे सुनन्दगृहिणा प्रभुः । सर्वकामगुणाख्येनाहारेण प्रत्यलाभ्यन ॥ ३८ ॥ गोशालकोऽपि भैक्षण कुक्षिपूरणतत्परः । भगवन्तं महावीरमसेवत दिवानिशम् ॥ ३९० ॥ प्राप्तायामृर्जराकायां गोशालो हृद्यचिन्तयत् । ज्ञान्येष श्रयत इति परीक्ष ज्ञानमस्य हि ॥३९१ ।। जायमाने प्रतिगृहं वार्षिकैस्मिन महोत्सवे। भिक्षायां किमहं लप्स्ये स्थामिन्नाख्याहि मेऽधुना ॥ ३१२॥ सिद्धार्थः स्वामिसंक्रान्तो घभाषे भद्र ! लप्स्यसे । धान्याम्लं कोद्रवकूरमेकं कूटं च रूपकम् ॥ ३१३॥ नदाकयं च गोशालो दिनाऽऽरम्भात्प्रभृत्वपि । विशिष्ट भोजनाभ्यर्थी श्वेवाभ्राम्यद् गृहे गृहे ॥ ३९४ ।। तथापि कुत्रचित् किंनिन्न कश्चिदघाप सः । श्रान्तोऽपराह्न कनापि निन्ये कर्मकृता गृहे ॥ ३१ ॥ धान्याम्लकोद्रबकरे दत्ते तेनापि सोऽपि ते । बुभुजेऽतिक्षुधा लेभे दक्षिणायां च रूपकम् ॥ ३१६॥ परीक्षित रूपकेऽपि कूटे सति स लज्जितः । यद्भावि तद्भवतीति नियतिवादमग्रहीत् ॥ ३९७ ।। दीक्षातः प्रावृषं स्वामी द्वितीयामतिगम्य ताम् । नालन्दाया निरीयाऽगात् कोलाके सन्निवशने ॥१८॥ तदा च बहुलो नाम विप्रो विप्रानभोजयत् । महादरेण स्वगृह भिक्षार्थी चाययौ प्रभुः ॥ ३९९ ॥ टि.- खाजा' इति गुर्जरभाषायाम् । एतमामकेन आहारेण । कार्तिवात्य पूर्णमास्याम् । - --
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy