SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्राप्ते शरवणग्रामे सुभद्राऽसूत चान्यदा । द्विजातेगबहुलस्य गोशालायां तनूरुहम् ॥ ३७४ ॥ स गोशालामसूतत्वाद्गोशाल इति संज्ञितः । क्रमादुद्यौचनो मंखशिल्पमभ्यस्तवान्निजम् ॥ ३७५ ॥ निसर्गतः कलिकरः पित्रोरप्यवशंवदः । निर्लक्षणो जन्मतोऽपि सोऽभूत्कूटविचक्षणः || ३७६ ।। पितृभ्यां कलहं कृत्वा गृहीत्वा चित्रपट्टिकाम् । भ्राम्यन् भिक्षां स एकाकी ययौ राजगृहेऽन्यदा ॥ ३७७ ॥ स्वामिनाऽलंकृते शालाकोणे तत्रानुमान्य तम् । गोशालोऽप्यवसत्सिं हसतिधाविव जम्बुकः ॥ ३७८ ॥ नायोsपि मासक्षपणपारणस्य विधित्सया । विजयश्रेष्ठिनो वेश्म प्राविशत्पाणिभाजनः ॥ ३७९ ॥ भक्त्या महत्या विजयश्रेष्ठी श्रेष्ठमतिः स्वयम् । सम्यग्भोजनविधिना स्वामिनं प्रत्यलाभयत् ॥ ३८० ॥ अहो दानं सुदानं वेत्युचैराघोषिणोऽमराः । रत्नवृष्टयादिदिव्यानि तद्गृहे पञ्च चक्रिरे ॥ ३८९ ॥ आकर्ण्य तत्तु गोशालोऽचिन्तयग्रदयं मुनिः । न सामान्योऽस्यान्नदातुर्गृहे श्रीर्यदभूदियम् ॥ ३८२ ॥ विहाय चित्रफलक पाखण्डं तदमुं निजम् । अस्य शिष्पीभवाम्यण निःफलो नेदृशो गुरुः ॥ ३८३ ॥ तत्रैवं चिन्तयत्येव पारयित्वा जगद्गुरुः । एत्य तत्रैव शालायामस्थात्प्रतिमया प्रभुः ॥ ३८४ ॥ गोशालः स्वामिनं नत्वोवाच वाचंयमस्य ते। मया प्रभावो नाज्ञायि विज्ञेनापि प्रसादतः ॥ ३८५ ॥ शिष्यस्तेऽहं भविष्यामि त्वमेकं शरणं मम । इत्युक्त्वा स तथा चक्रे तृष्णीकोऽस्थात्प्रभुः पुनः ।। ३८६ ॥ १ मेक: CD. M. I ॥७१॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy