SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मामृत्तिके गंगासैकने पदपद्धतिः । चक्रादिलाञ्छिता भर्तुरभूद् भूभूषणं स्फुटा ।। ३४८ ॥ सामुद्रलक्षणाभिज्ञः पुष्पो नाम ददर्श ताम् । एवं च दध्यौ कोऽप्येष एकाकी चक्रवर्त्यगात् ।। ३४९॥ अवाप्यप्राप्तराज्यो वा हृतो वा केनचिच्छलात् । मन्ये संप्रत्यसी याति तं सेवे सेवकैषिणम् ॥ ३५०॥ असावस्यामवस्थायां सेवितः फलदः खलु । सेव्यस्य सेवावसरः पुण्येनैव हि लभ्यते ॥ ३५१ ॥ ध्यात्वेत्यनुपदं सोऽगात् स्थूणाके सन्निवेशने । अधोऽशोकस्य चापश्यत्प्रभु प्रतिमया स्थितम् ॥ ३५२ ।। श्रीवत्सलाञ्छितं वक्षः *शिरोऽप्युष्णीषलाञ्छितम् । चक्रादिलाग्छिती पाणी भुजी 'भुजगरानिभौ॥३५३॥ दक्षिणावर्तगंभीरशुषिरं नाभिमंडलम् । लोकोत्तराणि लक्ष्माणि प्रभोरेवं ददर्श सः ।। ३०४॥ एवं चाचिन्तयत् पुष्पो यथाऽयं पादलक्षणः । लोकोत्तरस्तथान्यैरप्यसौ चक्रीति सूच्यते ॥ ३५५ ।। अप्येभिलक्षणैरेष भिक्षुरित्यस्मि विस्मितः। धिङ्मे शास्त्रश्रमं घिङ मामस्मिन्नाशाविधायिनम् ॥ ३५६ ॥ प्रतारणाय विश्वस्य स्वस्य कौतूहलाय या । अनाप्नरेव शास्त्राणि विहितानीति मन्यते ॥ ३०७ ॥ तेषां वाचा निबद्धाशो धावितोऽस्मि मुधैव हि । मृगतृष्णाजलायेव हरिणो मरुमंडले ॥ ३५८ ।। एवं विमृश्य पुष्पोऽधाद्विषादमधिकं हृदि । तदा चाचिन्तयच्छकः कथं विहरति प्रभुः ॥ ३५९ ॥ अपश्यचावधिद्दशा स्थूणाके स्वामिनं स्थितम् । तं च नैमित्तिकं पुष्पं विषादाच्छास्त्रदूषकम् ॥ ३६० ॥ टि.- भगवतः मस्तकोपरि द्वादशांगुल: उच्चः प्रदेशः । । शेषनागः ।। ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy