________________
तृणादिकं दीयमानमपि सम्र दिने यदा। न वृषौ बुभुजाते तो तदा श्रेष्ठीत्यचिन्तयत् ।। ३२२ ।। मयानुकम्पया पुष्टावियत्कालं वृषाविमौ । अतः परं पोषणीयौ बन्धू साधर्मिकाविति ॥ ३२३ ।। तयोवृषभयोरेयं बहुमानं विशेषतः । चक्रे दिने दिने श्रेष्ठी न हि तो तद्धिया पशू ॥३२४ ॥ भंडीरवणयक्षस्य जज्ञे यात्रोत्सवोऽन्यदा । वाहनानां वाहकेली चारेभे ग्रामदारकैः ॥ ३५ ॥ वयस्यो जिनदासस्य कौतुकी तो वृषावुभौ । अनापृच्छ्य गृहीत्वाऽगात लेहे यद्वैतमानिता ॥ ३२६ ॥ कुक्कुटाण्डाविव श्वेतौ सदृक्षा युग्मजाविव । कन्दुकाविव वृत्तांगो चामरोपमवालधी ॥ २७ ॥ उत्पतिष्णू इवौधुर्याद्वेगाद्वायोरिवात्मजी । शकठ्यां योजयामास तौ वृषौ श्रेष्ठिनः सुहृत् ।। ३२८ ।।
(युग्मम्) तत्सौकुमार्यमविदन् माजनाराभिरीरयन् । चित्रीयमाणो लोकानां सोऽकृपस्तावयाहयत् ॥३२॥ वाहकेलीकृतपणान् पौरान सर्वाञ्जिगाय सः । नाभ्यामद्वैतरंहोभ्यां वृषभाभ्यां क्षणादपि ॥ ३३ ॥ आरच्छिद्रोच्छलद्रक्तप्लावितांगौ च ती वृषौ । जातत्रोटौ श्रेष्टिगृहे भूयो बद्धवा जगाम सः ॥ ३३१॥ भोजनावसरे श्रेष्ठी स्वयं यवसपूलभृत् । तयोर्चषभयोः पार्श्वे ययौ तनययोरिव ॥ ३३२ ॥ व्यात्तास्यो निःसही सास्री पहुश्वासी सवेपथू । आरक्षतक्षरगती प्रेक्ष्य तावित्युवाच सः ॥ ३३३ ॥ १ आरा D, I. |
॥६७॥