________________
पारयित्वा प्रभुरपि श्वेतवीं नगरीं ययौ । प्रदशिना नरेन्द्रेण जिनभक्तेन भूषिताम् ॥ २८६ ॥ पौराऽमात्यचमूपायैः प्रदेशी परिवारितः | मघववापरोऽभ्यत्य जगन्नाथमवन्दत ॥ २८७ ।। प्रदेशी स्वपुरेऽथागात् स्वामी च विहरन क्रमात् । नगरं सुरभिपुरं तपःसुरभिरभ्यगात् ॥ २८८ ॥ मेदिन्या इव *संव्यानं प्रतिमानमिवाम्बुधेः । गंगां तरंगिणीमुच्चतरंगामासदत् प्रभुः ॥ २८ ॥ तो तितीर्घः सिद्धदत्तनाविकमगुणीकृताम् । आरोहद्भगवान्नावं पथिका अपरेऽपि हि ॥ २९ ॥ दण्डाभ्यां चाल्यमानाभ्यां पक्षाभ्यामित्र पक्षिणी । त्वरितं गन्तुमारेभे नौरभ्युशतनाविका ॥ २:१॥ याशित कौशिकेनोच्चैस्तदानीं तटवर्तिना । क्षमिलाख्यः शकुनज्ञोऽवोचक्षम न खल्विह ॥ २९२ ॥ प्राप्तव्यमचिरात् सर्वैर्व्यसनं मरणान्तिकम् । महर्षेरस्य महिम्ना तस्मान्मोक्ष्यामहे परम् ॥ २९३ ॥ ब्रुवाण एव तत्रैवं नौरगाधं जलं ययौ। सुदाढो नागकुमारस्तत्रस्थं चैक्षत प्रभुम् ॥ २९४ ॥ स्मृत्वा प्रारजन्मवरं स क्रुध्यन्नेवमचिन्तयत् । सोऽयं येन त्रिपृष्टत्वे सिंहोऽहं निहतस्तदा ॥ २९५ ।। रातहेशातिदरस्थे गिरौ निवसता मया । नापराद्धं तदा किंचिन्त्रिपृष्ठस्य सतोऽस्य हि ॥ २६ ॥ निजदोवार्यदर्पण कुतुहलचिकीर्षया । गुहामध्ये निलीनोऽहं तदानीं निहतोऽमुना ॥ २९७ ॥ टि.- वस्त्रम् ॥ १ 'दन्त DHE
॥६॥