SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १|| तृतीयः मर्ग: संपन्नासु प्रभो वारिधाराप्रायासु मास्वपि । ददंश दन्दशकः स निःशूकः पादपंकजे ॥२०॥ दृष्ट्वा दृष्ट्वापचक्राम स्वविषोद्रेकदुर्मदः। यत्पतन्मद्विषाक्रान्ती मृदुनीयादेष मामपि ।। २६१॥ दशतोऽप्यसकृत्तस्य न विषं प्राभवत्प्रभो । गोक्षीरधाराधवलं केवलं रक्तमक्षरत् ॥ २६६ ।। ततश्च पुरतः स्थित्या किमेतदिति चिन्तयन । वीक्षांचक्रे जगन्नाथं वीक्षापन्नः स पन्नगः ॥२६॥ नतो निरूप्य रूपं तदसरूपं जगद्गुरोः । कान्तसौम्यतया मंक्षु विध्याते नद्विलोचने ।। २६४ ॥ *उपसन्नं न जात्वा बभाष भामानिति । बकौशिक ! बुध्यस्व वुध्यस्व ननु मा मुहः ॥ २० ॥ श्रुत्वा तद्भगवद्वाक्यमूहापोहं वितन्वतः । पन्नगस्य समुत्पदे सारणं पूर्वजन्मनाम् ॥ २६६ ॥ ततः प्रदक्षिणीकृत्य स विस्त्रिभुवनेश्वरम् । निष्कषायः स्वमनसाऽनशनं प्रत्यपद्यत ।। २६७ ।। कृतानशनकर्माणं निष्कर्मार्ण महोरंगम् । प्रशमापन्नमज्ञासीदन्वज्ञासीच्च ने प्रभुः ॥ २६८ ॥ कुत्राप्यन्यत्र मा यासीद् दृष्टिमें विषभीपणा । इति तुण्डं बिल क्षिप्त्वा पपौ स समताऽमृतम् ॥७॥ तस्थौ तथैव तत्रैव स्वामी तदनुकंपया। परेषामुपकाराय महतां हि प्रवृत्तयः ॥ २७ ॥ भगवन्तं तथा दृष्टा विस्मेयस्मरलोचनाः । गोपाला वत्सापालाश्च तत्रोपसरपुर्वृतम् ॥ २७१ ॥ वृक्षान्तरे तिरोभूय यथेष्टं ग्रावलेष्टुभिः । प्रणिजघ्नुरनिघ्नास्ते पन्नगस्य महात्मनः ॥२७२ ॥ दि.-*शन्तम् ।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy