SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अभवत्पदसञ्चारसुषमीभूतवालुकम् । *उदपानावहत्कुल्यं शुष्कजर्जरपादपम् || २४९॥ जीर्णपर्णचयास्तीर्ण कीर्ण वल्मीकपर्वनैः । स्थलीभूतोटजं जीरण्यं न्यविशन प्रभुः ॥ २५० ॥ (युग्मम् ) सा गाय जागलामो पक्ष पिकासारे । तस्थौ प्रतिमया नासामान्तविश्रान्तलोचनः ।। २२१ ॥ ततो रष्टिविषः सर्पः सदो भ्रमितुं घहिः । बिलान्निरसरजिह्वा कालरात्रिमुखादिव ॥ २५२॥ भ्रमन् सोऽनुवनं रेणुसंक्रामद्धोगलेखया । स्वाऽऽज्ञालेखामिव लिखन्नीक्षाश्चके जगद्गुरुम् ।। २०३॥ अत्र मां किमविज्ञाय किमषज्ञाय कोऽप्यसौ । आः प्रविष्टो निराशंकं निष्कंपः शंकुवस्थितः ।। २५४ ॥ सदेनं भस्मसादय करोमीति विचिन्तयन् । आध्मायमानः कोपेन फटाटोपं चकार सः ।। २५५॥ ज्वालामालामुदमन्त्या निर्दहन्त्या लतादुमान् । भगवन्तं दृशाऽपश्यत् स्फारफत्कारदारुणः॥ २५६॥ दृष्टिज्वालास्ततस्तस्य ज्वलन्त्यो भगवत्तनौ । विनिपेतुर्दुरालोका उल्का इष दिवो गिरौ ॥ २७ ॥ प्रभोर्महाप्रभावस्य प्रभवन्ति स्म नैव ताः । महानपि मरुन्मलं किं कम्पयितुमीश्वरः ॥२८॥ दारुवाहं न दग्धोऽसावद्यापीति क्रुधा ज्वलन् । दर्श दर्श दिनेशं 'द्विदृग्ज्वालाः सोऽमुचत्पुनः ॥ २०॥ टि.-- *हवाडो' इति गुर्जरभाषायाम् । १त्रि DI हि हूँ ॥ ॥६॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy