SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ | तृतीयः सर्गः स च्युत्वा फनकखले सहस्रातपस्विनाम् । पत्युः कुलपतेः पत्न्याः पुत्रोऽभूत् कौशिकायः ॥ २३६ ॥ तत्र कौशिमगोववादासशल्यपि गौशिमाः । अत्यन्तकोपनत्वाच स ख्यातचंडकौशिकः ॥२७॥ श्राद्धदेवातिथित्वं च तस्मिन् कुलपतौ गते । असौ कुलपतिस्तत्र तापसानामजायत ॥ २३८॥ भूईया बनखंडस्य सोऽन्ताम्यन्नहर्निशम् । अदात्कस्यापि नादातुं पुष्पं मूलं फलं दलम् ॥ २३९॥ विशीर्णमपि योऽगृह्णाद्वने तत्र फलादिकम् । उत्पाट्य परशुं यष्टिं लोष्टुं वा तं जधान सः । २४० ॥ फलाद्यलभमानास्तु सीदन्तस्ते तपस्विनः । पतिते लगुडे काका इव जग्मुर्दिशो दिशम् ॥ २४१ ॥ अन्येjाटिकाहेतोः कौशिक थहिरीयुषि । अभांक्षुमक्षु राजन्याः श्वेतव्या एल्य तद्वनम् ॥ २४२ ॥ अथ व्यावर्तमानस्य गोपास्तस्य न्यवीविदन् । पश्य पश्य वनं कैश्चिद्भज्यते भज्यते तव ॥ २४३ ।। जाज्वल्यमानः क्रोधेन हविषव हुताशनः । अकुंठधारमुगम्य कुटारं सोऽभ्यधावत ॥ २४४ ॥ राजपुत्रास्ततो नेशुः श्येनादिव शकुन्तयः । स्खलित्वा च पपातायं यमवक्त्र इवावटे ॥ २४॥ पततः पतितस्तस्य संमुखः परशुः शितः । शिरो द्विधा कृतं तेन ही विपाकः कुकर्मणाम् ॥ २४६ ।। स विपद्म वनेनैव चंडोऽहिग्विषोऽभवत् । क्रोधस्तीत्रानुबन्धो हि सह याति भवान्तरे ॥ २४७ ॥ अवश्यं चैष बोधार्ह इति बुद्धया जगद्गुरुः । आत्मपीडामगणयन्नुजुनैद पथा ययौ ॥ २४८ ॥ ॥३०॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy