________________
तुन्नवायस्य तस्यैव हृष्टो विप्रस्तदार्पयत् । सोऽपि ते देवदृष्यार्थे अयोजयद संधिवत् ॥ २२३ ॥ दीनारलक्षं तन्मूल्यं बन्धू इव विभज्य तौ । अर्धम जगृहतुस्तुन्नत्रायो द्विजश्च सः ॥ २२४ ॥ इतश्च भगवान् वीरः समीरण इवाञ्स्वछन् । वेतव्यभिमुखं गच्छन्नित्यूचे गोपदारकैः ॥ २२५ ॥ देवार्यामृजुः पन्थाः श्वेतवीमुपतिष्ठते । किं त्वन्तरेऽस्य कनकखलाख्यतापसाश्रमः ॥ २२६ ॥ स हि दृग्विषसर्पणाधिष्ठितो वर्ततेऽधुना । चायुमात्रैकसञ्चारोऽप्रचारः पचिणामपि ॥ २२७ ॥ विहाय तदसुं मार्ग वक्रेणाप्यमुना व्रज । सुवर्णनापि किं तेन कर्णच्छेदो भवेद्यतः ॥ २२८ ॥ तं चाहिं प्रभुरज्ञासीद्यदसौ पूर्वजन्मनि । क्षपकः पारणकार्थं विहर्तुं वसतेरगात् ॥ २२९ ॥ गच्छता तेन मंडूकी पापाताद्विराधिता । आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ॥ २३० ॥ सो प्रत्युत मंडूकीर्दर्शयन लोकमारिताः । ऊचे क्षुल्लं मया क्षुद्र ! किमेता अपि मारिताः १ ॥ २३१ ॥ तृष्णोऽभूत्ततः क्षुल्लो मस्त चैवं विशुद्धधीः । महानुभावो यदसौ सायमालोचयिष्यति ॥ २३२ ॥ आवश्यके ऽप्यनालोच्य यावदेष निषेदिवान् । क्षुल्लकोऽचिन्तयत्तावद्विस्मृताऽस्य विराधना ॥ २३३ ॥ अस्मारयच तां भेकीमालोचयसि किं न हि । क्षपकोऽपि कुधोत्थाय क्षुल्लं हन्मीति धावितः ॥ २३४ ॥ कोपान् ततः स्तं प्रतिर्फल्य व्यपद्यत । विराधितश्रामण्योऽसौ ज्योतिष्केषूपपश्यत || २३५ ॥
१ स्फल्य J ॥
॥५९॥