________________
तृतीयः
सर्ग:
पुरो मम यदि ज्ञाता मन्ये ज्ञाता तदा हि सः। गत्वा तस्याऽज्ञनामाविष्करोम्येषोऽद्य पश्यत ॥ १८६ ॥ इत्युक्त्वाऽच्छन्दकः क्रुद्धो वृतो ग्राम्यैः सकौतुकैः । कायोत्सर्गस्थितं नाथं द्रुतं द्रुतमुपाययौ ॥ १८७॥ करांगुलीभिः स तृणं गृहीत्वोभयपार्श्वयोः । ऊच नाथं तृणमिदं किं मया छेत्स्यते न वा ? ।। १८८ ।। भावस्तस्याभवच्चायं देवायों यद्वदिष्यति । तत्प्रतीपं करिष्यामि स्याद्यथाऽमृतवागसौ ॥ १८९॥ आचचक्षे च सिद्धार्थो न छेत्स्यत इदं तृणम् । अच्छन्दकोऽपि तच्छेत्तुमारेभे सज्जितांगुलिः ॥ १९ ॥ दध्यौ शक्रस्तदा स्वामी विहरत्यधुना कथम् । दत्तोपयोगनापश्यत्तदच्छन्दकचेष्टितम् ॥ १९१ ॥ मा भूत्स्वामिमुखोद्गीर्णा गीरसत्येति वज्रभृत् । धज्रेण चिच्छेद दशाप्यच्छन्दककरांगुलीः ।। १९२ ॥ वीक्षापन्नस्तृणाच्छेदाद्धस्यमानोऽखिलैर्जनः । अच्छन्दकोऽन्यतोऽगच्छदुन्मत्त इव मूढधीः ।। १०३ ॥ सिद्धार्थोऽश्रावदद् ग्राम्यांस्तस्करोऽच्छन्दको ह्ययम्। ग्राम्याःप्रत्यूचिरे स्वामिन् ! किं कस्यानेन चोरिनम् १९४ सिद्धार्थोऽप्यब्रवीदत्र वीरघोषोऽस्ति कर्मकृत् । तच्छ्रुत्वा वीरघोषोऽपि प्रणम्य स्वमदर्शयत् ॥ ११५ ॥ आदिशेति च तेनोक्त सिद्धार्थः पुनरभ्यधात् । भाजनं ते दशपलं नष्टपूर्व निकेतनात् ? ॥ १९६ ।।। आमेत्युक्ते च घोषेण सिद्धार्थः स्माह तत्खलु । हृतं पाखण्डिनानेन प्रत्ययोऽत्र निरीक्ष्यताम् ॥ १९७ ॥
१ त्रिकालास्तदा ॥
॥५६॥