SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ यान्तमाहूय गोपालमूचे भो ! भुक्तवानसि । कंगुकूरं ससौवीरं वृषांस्त्रातुं च गच्छसि ॥ १७३ ॥ आगच्छेश्राहिमद्राक्षीः स्वमेऽरोदीश्च निर्भरम् । तदेतत्संवदति किं सत्यमाख्याहि गोपक ! ॥ २७४ ॥ सत्यमेवेति तेनोक्ते सिद्धार्थस्तस्य भूरिशः । भूयस्तत्तत्समाचख्यौ प्रत्ययोत्पत्तिकारणम् ॥ १७५ ॥ गोपः सविस्मयो ग्रामे गत्वाऽऽख्यग्रद्बहिर्वने । देवायऽस्ति त्रिकालज्ञः सोऽपूरि प्रत्ययान्मम ॥ १७६ ॥ तच्छ्रुत्वा कौतुकापूर्णस्तु ग्रामजनोखिला । पुष्पाक्षतादिपूजाभृदाययाँ स्वामिसन्निधौ ॥ १७७ ॥ सिद्धार्थः स्वामिसंक्रान्तो ग्रामीणानब्रवीदिदम् । द्रष्टुं मेऽतिशयं यूयं सर्वे स्थ किमिहागताः ? ॥ १७८ ॥ ग्राम्यैरामेत्यभिहिते यत्तैर्दृष्टं कृतं श्रुतम् । उक्तं च प्राक् तदानीं च सिद्धार्थस्तदचीत् ॥ १७९ ॥ सिद्धार्थो भावि वाचख्यौ श्रुत्वा लोकस्तनोऽकरोत् । प्रभोः पूजां वन्दनां च महामहिमपूर्वकम् ॥ १८० ॥ एवं च प्रत्यहं लोकेष्वापतत्सु पतत्सु च । सिद्धार्थव्यन्तरस्याभून्मनःप्रीतिर्गरीयसी ॥ १८१ ॥ ऊचुस्तत्रान्यदा ग्राम्याः स्वामिन्नच्छन्दकाभिषः । ग्रामे परिवसत्यस्मिन् सोऽपि वेत्ति भवानिव ॥ १८२ ॥ सिद्धार्थस्तान भाषिष्ट न स जानाति किञ्चन । ऋजून् प्रतार्य भवतः करोत्युदर पूरणम् ॥ १८३ ॥ ते गत्वाऽच्छन्दकं स्माहुर्न त्वं जानासि किञ्चन । सर्वं जानाति देवाय भावि भूतं भवच्च यत् ॥ १८४|| स्वप्रतिष्ठाभ्रंश भीरु भाषेऽच्छन्दकोऽप्यवः । स वः पुरो वेत्ति परं परमार्थमजानताम् ॥ १८५ ॥ १ तु । स्थः । स्व ८ ॥ | ॥२५॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy