SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ यच्चार्कः केवलज्ञानं तत्समुत्पत्स्यते तव । यच्चान्त्रैर्वेष्टितोऽद्रिस्तत्समतापं यशस्तव ॥ १६१ ॥ यन्मेरुशृंगमारूढस्त्वं तत्सिंहासनस्थितः । धर्म देक्ष्यसि यद्दाम्नी नयोनि फलं न हि ॥ १६२ ।। अथाचचक्षे भगवान् दामद्वयफलं त्वदः । गृहस्थानां यतीनां च वक्ष्ये धर्म द्विधापि हि ॥ १६३ ॥ अथ नत्था जगन्नाथं ययौ स्वस्थानमुत्पलः । विस्मयप्रमदोन्मुद्रमनसोऽथापरेऽप्ययुः ॥ १६४ ।। तत्रार्धमासक्षपणैश्चतुर्मासीमतीत्य साम् । निरगादस्थिकप्रामाहि.हतु प्रभुरन्यतः ॥ १६५ ॥ अनुगच्छन् शूलपाणिः प्रभु नत्वाऽभ्यधादिदम् । स्वसौख्यनिरपक्षस्त्वमिहागा मेऽनुकम्पया ॥ १६६॥ न पापो मत्समः कोऽपि यस्त्वय्यप्यपकारकृत् । न सार्वस्त्वत्समः कोऽपि यो मय्यप्युपकारकत्॥१६७॥ अद्य यावदार्जयिष्य कामहं नरकावनिम् । नाबोधयिष्यस्त्वं चेन्मां विश्वोपकृतिकर्मठ ! ॥१६८ ॥ इत्युदित्वा भक्तिगंभों भगवन्तं प्रणाम्य च । शूलपाणिनिववृते शान्तो द्विप इवामदः ॥ १६९ ।। दीक्षाधिनादतीतेऽन्दे मोराकं सनिवेशनम् । गत्वा तदहियाने स्वाम्यस्थात् प्रतिमाधरः ॥ १७ ॥ तस्मिन्नच्छन्दको नाम पाखंडी सन्निवशने । ज्योतिष्कमंग्रतंत्रादिकरणेन स्म जीवति ॥ १७१ ॥ सस्यासहिष्णुर्माहात्म्यं स्वाम्यर्चा चाभिलाषुकः । सिद्धार्थव्यन्तरः कृत्या संक्रमं स्वामिवर्मणि ॥ १७२ ।। १ साधुसद ), स्वार्यस्व ॥ ॥ २ गर्भ L!! ३ "पंटी C, D, I. 1. टि.- सर्वेभ्यो हितः। ...-- -- - - -- ---- ॥५४॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy