________________
वर्धिष्णुस्तालपिशाचः स्ना नगपादित किल । कोकिलो वेननिनौ च सेवमानौ स्वसन्निधौ ॥ १४८ ॥ दामद्वयं च गन्धाढ्यं गोवर्गः सेवनोद्यतः । पद्माचितं पद्मसरो दोर्ध्या तीर्णश्च सागरः ॥ १४९ ॥ उद्रदिमकं चार्कविम्बमथाद्रिर्मानुषोत्तरः । निजान्नैवेष्टितः स्वेनारूढं मेरुशिरोऽपि च ॥ १५०॥ एवं प्रेक्ष्य दश स्वप्नान् प्राबुद्ध त्रिजगद्गुरुः । उदियाय च मार्तंडो विवन्दिषुरिव प्रभुम् ॥ ११ ॥ नदा चागाजनः सर्व इन्द्रशमोत्पलोऽपि च । अक्षतांगं पूजितं च प्रभु प्रेक्ष्य मुदं ययौ ॥ १५२ ।। साश्चर्याः प्रभुमभ्यर्च्य पुष्पप्रभृतिभिश्च ते । सिंहनादं विदधिरे धीरा इव जिताहवाः ॥ १३ ॥ सिंहनादमुखास्ते तु परस्परमदोऽवदन् । देवार्येणाधुना दिष्ट्योपाशामि व्यन्तरश्चिरात् ॥ १५४ ॥ उत्पलोऽपि परिज्ञाय भगवन्तमवन्दत । निषसाद च तत्पादपनान्ते शिष्यलेशवत् ॥ १५५ ।। कायोत्सर्गावसाने च प्रभु नत्वोत्पलः पुनः। ज्ञानसामर्थ्यनो ज्ञानप्रभुस्वमोऽब्रवीदिदम् ॥ १५ ॥ स्वामिनिशान्ते युष्माभिःसुस्यमाः प्रेक्षिता दश। नत्फलानि स्वयं वेत्मि भत्तयाख्यामि तथाप्यहम् ॥१५॥ हतरसालपिशाचो यत्तन्मोहं निहनिष्यसि । गच्छ्वतः कोकिला शुक्लध्यानमारोक्ष्यसीश ! तत् ॥१८॥ यचित्रः कोकिलस्तद् द्वादशांगी प्रथयिष्यसि । गोवर्गो यत्तु तद्भावी संघस्तव चतुर्विधः ॥ ५९॥ यत्तु पद्मसरो देवनिकायः सेवकस्ततः । यत्तु सागरमुत्तण उत्तरिष्यसि तद्भवम् ॥ १६० ॥ १ वीरा ॥ ॥ २ तु D, if |
॥२३॥