________________
A .
..
...
HMM.NPAYPALPAL
देवार्थक ततो यातेऽस्तमिते च दिवाकर । कायोत्सर्गस्थिते नाथेऽट्टहासं व्यन्तरोऽकरोत् ॥ १२२ ॥ पुष्फोटेव नभोभाण्डं तुत्रोटयोडमंडलम् | तेनाट्टहासशब्देनातिरौद्रेण प्रसर्पता ॥ १२३ ॥ ग्रामलोकोऽपि तं शब्दं श्रुत्वाऽवोचत्परस्परम् । नूनं देवार्यकः सोऽय व्यन्तरेण निहन्यते ॥ १२४ ॥ नाना तत्रोत्पलः पार्श्वतीर्थसाधुवरस्तदा । परिवाइष्टांगमहानिमित्तज्ञानपण्डितः ॥ १२५ ॥ लोकादेवार्यवृत्तान्तं श्रुत्वाऽधादधृति हदि । अपश्चिमस्तीर्थकरो मा स्म भूदिति शंकया । १२६ ।। (युग्मम्) अट्टहासस्वरेणापि न चुक्षोभ यदा प्रभुः । हस्तिरूपं तैदाघोरं व्यन्तरो विषकार सः ॥ १७ ॥ स्वामिना हस्तिरूपे चावज्ञाते सति निर्ममे । पिशाचरूपं सोऽप्युबै रोदसीमानदण्डवत् ॥ १२८ ॥ तेनाप्यक्षुभिते नाथे सर्परूपं भयंकरम् । विचकार स दुष्टात्मा यमपाशायुधोपमम् ॥ १२ ॥ प्रभु स सपो दर्पान्धो भोगेनावेष्टयद् दृढम् । दश दशढिममोविषनिरः॥ १३०॥ चक्रे स भुधाभूते भूतराट् सप्त वेदनाः। शिरोनेत्रश्रवोनासावन्तपृष्ठनखे प्रभोः॥ १३१ ॥ एकापि वेदना मृत्युकारणं प्राकृते नरे। अघिसेहे तु ताः स्वामी सप्तापि युगपद्भवाः ॥ १२ ॥ कृत्वा कृत्वेत्युपसर्गानिर्षिण्णो व्यन्तरः स तु । नत्या विज्ञपयामास प्रभुमेवं कृताञ्जलिः ॥ १३३ ॥ मया दुरात्मना नाथ ! तब शक्तिमजानता। नितान्तमपराद्धं यत्तत्क्षमस्व दयानिधे ! ॥ १३४ ॥ १ सर्विगा / ॥ २ महायो D, M || सुषा (', M॥
R१॥
न