SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ M - A RKSMAv..R.AMR/m.d'SM-4. विदर्ग्रहदेवीनां स्नानपूजादिकं मुहुः । नोपशान्तिरभून्मारेस्तथापि हि मनागपि ॥ १६ ॥ ग्रामास्तराग्याम्या व्यन्तरः स तु कोपनः । युवराजो यमस्येवामारयत्तांस्तथापि हि ॥ ९७ ॥ ग्राम्या व्यचिन्तयंश्चैवं कोऽप्यस्माभिर्विरोधितः । देवो दैत्योऽथवा यक्षः क्षेत्रपालोऽपरोऽपि वा ॥२८॥ ग्रामस्तत्रैव तद्ग्रामे तत्प्रसादनहेतवे । एवं विमृश्य ते भूयः संभूयेह समाययुः ॥ १९ ॥ ते स्नाताः श्वेतवसना उत्तरासंगधारिणः । मुक्तकेशाश्चत्वरेषु त्रिकेषूद्यानभूमिषु ॥ १०० ।। भूतगेहेष्वथान्यत्र क्षिपन्तः परितो बलिम्। ऊर्ध्वाननाः प्राञ्जलयो दीनास्या एवमूचिरे ॥१०१ ।। (युग्मम् ) भोः ! सुरा असुरा यक्षरक्षःकिंपुरुषादयः। यत्प्रमादान्मदाद्वागस्तन्नः क्षाम्यन्तु सर्वथा ॥ १०२ ॥ कोपःप्रणामावधिको महतां हि महानपि । तत्प्रसीदत यः कश्चिदस्त्यस्माभिर्विरोधितः॥१३॥ व्यन्तरः सोऽन्तरिक्षस्थोऽथाब्रवीद्र दराशयाः ।। लुब्धा लब्धकसंकाशाः! क्षमणं कुरुताधना ॥१०४॥ नदानी वृषभस्य क्षत्तषाकान्तस्य तस्य तु । वणिग्दत्तधनेनापि दत्तं नाम्भस्तुणादि यत् ॥१०५॥ स मृत्वा वृषभोऽभूवं शूलपाणिरहं सुरः । तेन वैरण वः सर्वान्मारयामि स्मरन्तु तत् ॥ १०६ ॥ तच्छुत्वा ते पुनस्तस्मै धूपोत्क्षेपणतत्पराः । लुठन्तो भूतले दीना भूयोऽप्येवं पभाषिरे ।। १०७॥ अपराभूमदोऽस्माभिस्तथापि क्षाम्य शाम्य च । शरणं त्वां प्रपन्नाः स्मो हानन्यशरणा वयम् ॥ १०८ ॥ १ पतः । ॥ २ राधि’ L, C || ३ राधि ॥ ॥४९॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy