SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ निर्भत्सराः सत्यगिरस्तापसा इति चिन्तयन् । स नाथमूचे किं तात ! बातोऽयं नोटजस्त्वया ? ॥ त्वत्पित्रा रक्षिताः सर्वे यावज्जीवं किलाश्रमाः । दुष्टशासनरूपं हि तवापि ब्रतमहति ॥ ७१॥ आत्मानमिव रक्षन्ति स्वनीदं नीडजा अपि । विवेकिना त्वया हन्त किमाश्रम उपेक्षितः ? ॥७२॥ स्वविवेकोचितां शिक्षा स दत्त्वा जीर्णतापसः । स्वमाश्रमं ययौ भूयः स्मरन् सिद्धार्थसौहृदम् ॥ ७३ ॥ दो लैवं विभोपामतीनिलिवन्धना । नत्र स्थातुमुचितं न मे सर्वहितैषिणः ॥ ७४ ।। एवं च चिन्तयन स्वामी वैराग्यमधिकं दधत । अभिग्रहानिमान पञ्च जग्राह करुणानिधिः॥ ७ ॥ नैवाऽनीतिमतो गेहे वसनीयं कदाचन । स्थातव्यं च शरीरेण कायोत्सर्गजुषा सदा ॥ ७६ ॥ स्थेयं मौनेन च प्रायो भोक्तव्यं पाणिभाजने । गृहस्थस्य च विनयो न कार्य इति पञ्च ने ॥ ७ ॥ अभिग्रहान् गृहीत्वामूनर्धमासादनन्तरम् । ग्राम नाम्नाऽस्थिकग्राम ययौ पावृष्यपि प्रभुः ॥ ७८॥ नत्र चैकस्य यक्षस्य शूलपाणेनिकेतने । अधिवस्तुं जगन्नाथो ग्रामीणानन्वजिज्ञपत् ।। ७९॥ ऊचुाम्या न यक्षोऽयं वस्तुं दत्तन कस्यचित् । यक्षस्यामुष्य हि कथा महती सा निशम्यताम् ।। ८०॥ ग्रामोऽयमभवत्पूर्व वर्धमानोऽभिधानतः । नद्यस्ति वेगवत्यत्र पंकिलोभयकूलभूः ॥ ८१॥ तत्र भाण्डभृतैरागादनसां पञ्चभिः शतैः । धनदेवो वणिक् तस्य चाभूदेको महावृषः ।। ८२ ॥ तं महोतं धुरि कृत्वा सर्वाणि शकटानि सः। नया उत्तारयामास विषमाया अपि क्षणात् ॥ ८३ ॥ ॥४ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy