________________
आज्ञानुलम्बितभुजो जटावानिव पादपः । नियंत्रितमनास्तत्र तस्थौ प्रतिमया प्रभुः ॥ ५८ ।। भीष्मग्रीष्मर्तुमाहात्म्यान्निःशेषिततृणे बने । अनुवन्नूतनतृणे नवत्वात्प्रावृषोऽपि च ॥ ५९ ॥ अधावन खादितुं गावस्तापसानां तृणोटजान् । निर्दयास्वापसास्त' गाग्ता गणिभिरताडगन ॥ ६ ॥
(युग्मम् ) तैस्ताडयमाना गावस्तास्तृणीकः स्वाम्यधिष्ठितम् । चखादुः स्तंभनिभृते प्रभौ तासां कुतो हि भीः ॥६॥ तापसा अपि तत्प्रेक्ष्याऽक्रुध्यन्नेवं प्रभु प्रति । रक्षामो वयमुटजान स्वं न रक्षत्यसौ पुनः॥ ६२ ॥ अहो कुलपतेः कोऽयमतिथिर्यस्य पश्यतः । चस्यादुर्गाव उदजनहो स्वार्थंकनिष्ठता ॥ ६३ ॥ किं कुर्महे स्व आत्मेव प्रियः कुलपतेरयम् । तद्भयादेव परुष न वक्तुमिह शक्यते ॥ ६४ ॥ तापसास्तेऽन्यदा नाथे प्ररूढप्रौढमत्सराः । गत्वा कुलपतेः पार्श्व सोपालंभमदोऽवदन् ॥ ६५ ॥ आश्रमे श्रमणः कोऽयमानीतो निर्ममस्त्वया । उटजस्यापि नाशोऽभूद्यदस्मिन्निह तस्थुषि ॥ ६६ ॥ अकृतज्ञ उदासीनो निर्दाक्षिण्योऽलसश्च सः । गोभ्योऽपि रक्षति न यः खाद्यमानं स्वमाश्रमम् ॥ ६७ ॥ मुनिमन्योऽथवा नैष गा रक्षनि समत्वभृत् । गुरुदेवार्चकास्तत्किं वयं न मुनयो मुने ! ॥ ६८ ॥ ततः कुलपतिरगावुपनार्थ ददर्श च । कृत्तपक्षं खगमिव छदिवर्जितमाश्रमम् ॥ ६९ ॥ १ "स्तेऽपि स्ता व
INदा