SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ दीक्षाक्षणे च यचक्रे विभोर्देवैर्विलेपनम् । गास्तत्सौरभाकृष्टास्तमागत्योपदुद्रुवुः ॥ ४६ ॥ गन्धयुक्तिमयाचन्त ग्रामीणतरुणाः प्रभुम् । अंगसंगं तरुण्यस्तु स्मरज्वरभरोषधम् ॥ ४७ ॥ दीक्षादिनात् प्रभृत्येवं साग्रं मासचतुष्टयम् । उपसर्गाजगन्नाथः संहे गिरिरिव स्थिरः॥ ४८ अन्यदा विहरन स्वामी मोराके सन्निवेशने । ययौ दुइजन्तकाख्यतापसवातसंकुले ॥४९॥ पितृमित जलपतिस्नन नाथापितः । पूर्वाभासात् स्वामिनाऽपि तस्मिन् बाहुः प्रसारितः ॥ ५॥ प्रार्थितः कुलपतिना तत्रैकामवसन्निशाम् । प्रतिमौकरात्रिक्या श्रीमान सिद्धार्थनन्दनः ॥ ५१ ॥ विजिहीर्षु भगवन्तमूचे कुलपतिः प्रगे। वर्षाकालस्त्वया कार्यों विविक्तवसतायिह ॥५२॥ नीरागोऽपि वचस्तस्य प्रतिश्रुत्योपरोधतः । निरञ्जनः शंख इव प्रययौ प्रभुरन्यतः ॥ ५३॥ वायुरिवाप्रतिबद्धो निर्लेपः पद्मपत्रवत् । सर्वत्र विहरन ग्रीष्मकालं स्वाम्यत्यवाहयत् ।। ५४ ॥ सिद्धार्थसुहृदस्तस्य स्मरन् कुलपतेर्वचः । स्वामी प्राथषमत्येतुं मोराकं पुनरभ्यगात् ।। ५५॥ वर्षत्युद्गर्जितं मेघे खंस्थधारागृहोपमे । स्वस्वस्थानाय गच्छत्सु पथिकेष्वपि हंसवत् ॥ ५६ ॥ प्रभोर्धातृव्यतास्नेहसम्बन्धमधुराशयः । गृहमेकं कुलपतिस्तृणाच्छादितमार्पयत् ॥ ५७ ॥ (युग्मम्) ये ॥ २ "पास्थित C॥"पस्थितःD| ३ स्वंडभा' | टि.- मीकृत्य ॥ ॥४॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy