________________
तृतीयः
इत्युक्तवागाद्धरिस्तस्थौ सिद्धार्थः प्रतिपद्य तत् । स्वामी षष्ठपारणाय कोल्लाक्रे गान्निवेशने ॥ ३४ ॥ तन्त्र द्विजातेर्षहुलाभिधरा लादले प्रभुः । वो सियभि एनान्नेन पारणम् ॥ ३५ ॥ वसुधाराप्रभृतीनि द्विजातेस्तस्य सद्मनि । पञ्च दिव्यान्याविरासन कृतानि दिविषद्गणैः ॥ ३६ ॥ ततो जगद्गुरुः शीतलेश्यः शीतमयूखवत् । तपरतेजोदुरालोकोऽधिपतिस्तेजसामिव ॥ ३७॥ शौण्डीर्यवान् गज इव सुमेरुरिष निश्चलः । सर्वस्पर्शसहिष्णुश्च यथैव हि वसुन्धराः ॥ ३८ ॥ अम्भोधिरिव गंभीरो मृगेन्द्र इव निर्भयः। मिथ्यादृशां दुरालोकः सुहृतो हव्यवाडिव ॥ ३९ ॥ खड्गिशृंगमिषैकाकी जातस्थामा महोक्षवत् । गुप्तेन्द्रियः कूर्म इवाहिरिवैकान्तदत्तदृक् ॥ ४०॥ निरञ्जनः शंख इव जातरूपः सुवर्णवत् । विप्रमुक्तः खग इव जीथ इवास्खलद्गतिः ॥ ४१ ।। भारंड इवाप्रमत्तो व्योमेव च निराश्रयः । अंभोजिनीदलमिवोपलेपपरिवर्जितः ॥ ४२ ॥ शत्रौ मित्रे तृणे *स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । इहामुन्न सुखे दुःखे भवे मोक्षे समाशयः ॥ ४ ॥ निष्कारणैककारुण्यपरायणमनस्तया । मजद्भवोदधौ मुग्धमुद्दिधीधुरिदं जगत् ॥ ४४ ॥ प्रभुः प्रभञ्जन इवाऽप्रतिबद्धोऽधिमेखलाम् । नानाग्रामपुरारण्यां विजहार बसुन्धराम् ॥ ४५ ॥
॥ नबभिः कुलकम् ॥ १ तालिम' L || २ भारुण C॥ टि.- *स्वीसमूहे।
CREATIXXX
॥४४॥