SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः त्वया क्वेद प्राप्तमिति तुन्नवायेन भाषितः । शशंस श्रीमहावीरादत्राप्तमिति स द्विजः ॥ १० ॥ यभाषे तुन्नवायस्तं द्वितीयमपि वाससः । अस्यार्धमानय मुनेस्तस्यानुपदमभ्याट ॥ ११ ॥ मुनेः पर्यटतस्तस्य लगित्वा कंटकादिषु । तत्पतिष्यति वासो सोऽनीहो न ग्रहीष्यति ।। १२ ॥ तदादायाऽत्रानयेस्त्वं योजयित्वा बल उभे । अहं पूर्णीकरिष्यामि शुक्लपक्ष इवोडपम् ॥१३॥ दीनारलक्ष मूल्येऽस्य भविष्यति विभज्य तत । अर्धमधु नहीच्याचो भ्रातरौ सोदराविध ॥ १४ ॥ आमेत्युत्तथा प्रभुमगात् स द्विजः प्रभुरप्यथ । ईर्यासमितिमान् सायं कूर्मारग्राममासदत् ॥ १५ ॥ नासाग्रन्यस्तनयनः प्रलम्बितभुजद्वयः । प्रभुः प्रितिमया तत्र तस्थौ स्थाणुरिष स्थिरः ॥ १६ ॥ तदा च गोपः कोऽप्येको बाहयित्वा दिनं घृषान् । ग्रामसीमन्युपस्वामि प्राप्त एवमचिन्तयत् ॥१७॥ अत्रैव मे चरन्त्वेते वृषभा ग्रामसीमनि । अहं करिष्ये सामान्तर्गत्वा दोहं पुनर्गधाम् ॥ १८ ॥ ध्यात्वैवं सोऽविशद् ग्राम चरन्तस्तवृषाः पुनः । अटवीं विविशुर्गोपं विना तिष्ठन्ति ते न हि ॥ १९ ॥ स ग्रामात्त्वागतो गोपो मम क्च वृषभा इति । पप्रच्छ स्वामिनं स्वाम्यप्यवोचन्न हि किंचन ॥२०॥ तृष्णीके तु प्रभो नैष किंचिद्वेत्तीति चिन्तयन् । उक्ष्णो मृगयमाणः स्वान् गोपोऽतीयाय तां निशाम् । २१ टि.- कायोत्सर्गे। |॥४२॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy