________________
॥ अथ तृतीयः सर्गः ॥
樂樂
ततश्च त्रिजगन्नाथः सोदर्यं नन्दिवर्धनम् । आपप्रच्छेऽन्यतो गन्तुं ज्ञातवंश्यान् परानपि ॥ १ ॥ चारित्ररथमारूढं विहारप्रस्थितं प्रभुम् । वृद्धः पितृसुहृद्विमः सोमो नत्वेत्यभाषत ॥ २ ॥ स्वामिन् ! संवत्सरवानमदाः स्वान्यानपेक्षया । अदरिद्रं जगज्जज्ञे विना मां मन्दभाग्यकम् ॥ ३ ॥ अहं हि जन्मतो नाथ ! महादारिद्र्यविद्रुतः । परान् प्रार्थयितुं ग्रामाद् ग्रामं भ्राम्याम्यहर्निशम् ॥ ४ ॥ सहे निर्भर्त्सनं क्वापि ग्रीवायां ग्रहणं क्वचित् । क्वचिदप्युत्तरादानं मुखमोटनकं क्वचित् ॥ ५ ॥ नाशया तदाचैर्यहिर्भ्रमत एव मे । अजानतो वात्सरिकं त्वद्दानं निष्फलं गतम् ॥ ६ ॥ संप्रत्यपि कृपां कुर्वन् जगन्नाथ ! प्रयच्छ मे । निर्भर्त्स्य प्रेषितः पत्न्या स्वामिन्नस्मि त्वदन्तिके ॥ ७ ॥ स्वाम्यप्युवाच कारुण्याच्यक्तसंगोऽस्मि संप्रति । तथाप्यंसस्थितस्यास्य वाससोऽर्ध गृहाण भोः ! ॥ ८ ॥ सोऽपि वासोऽर्धमादाय हृष्टो निजगृहं ययौ । दशाबन्धकृतं तुन्नवायस्यादर्शयच्च तत् ॥ ९ ॥
१ "इस / ॥
॥४१॥