________________
दधतुश्चमरबली दक्षिणोत्तरयोरधः । अन्ये भुवनपत्याद्या दधिरे तु यथोचितम् ॥ १९ ॥ तदानीं गच्छदागच्छद्देवैरजनि संकुलम् । दिनान्ते पक्षिभिरिचान्तरिक्षमधिकत्वरैः ॥ १९१ ॥ नया शिविक्रया स्वामी विदशैरुह्यमानया । ज्ञातखंडवनं नाम ययावुपवनोत्तमम् ॥ १९२॥ मियस्येव हिमऋतोरागमे कोरकच्छलात् । रोमाञ्चिताङ्गीभिरिव लवलीभिमनोरमम् ॥ १९३॥ कुसुंभरक्तवासोभिरिव न्यस्तैर्वनश्रिया । नागरगवनैः पक्कफलमालिभिरंकितम् ॥ १९४॥ कृष्णेथूणां मिथः पत्राश्लेषसांराविणैः सदा । पथिकानाह्वयदिव तदुद्यानं विवेश सः॥ १२५ ॥
॥ त्रिभिर्विशेषकम् ॥ शिविकायाः समुत्तीर्य भूषणान्यत्यजत्प्रभुः । देवदुष्यं देवराजः स्कन्धे च निदधे प्रभोः ॥ १९६॥ मुष्टिभिः पञ्चभिः केशानुः त्रिजगद्गुरुः । प्रतीक्ष्य दृष्ये तान् शक्रश्चिक्षेप क्षीरनीरधौ ॥ १९७॥ तेनागत्य निषिद्धेऽथ तुमुले निजगत्प्रभुः । कृत्वा सिद्धनमस्कारं चारित्रं प्रत्यपद्यत ।। १९८ ॥
ACAMAKARKAXXX
१ प्रतीष्य
॥