SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ HOPAL द्वितीयः X X .NPAL तादृशीमेष शिविकां तदा शक्रोऽप्यकारयत् । युग्मजाते इथाऽभाता यथोभे तुल्यया श्रिया ॥१७॥ प्रथमायां शिबिकायां द्वितीयशियिका तदा । देवशक्त्यान्तर्बभूव नद्यामिव नदी क्षणात् ॥१७८ ॥ ततः प्रदक्षिणीकृत्य शिविकामधिरुह्य च । सिंहासनमलंचक्रे सांहिपीटं जगत्प्रभुः ॥ १७९॥ मंगल्यश्वेतवसनः सचन्द्रिक इवोडपः । विभुबभौ भूषणैश्च कल्पद्रुम इवापरः ॥१८॥ प्रभो प्राङ्मुखमासीने शुचीभूताः सुबाससः । विचिबरनालंकाराः सर्वा दक्षिणपार्श्वगाः ॥ १८१ ॥ प्रालयः शाखिन इव शोभिता हस्तशाटकैः । निषेदुरेकमनसस्तदा कुलमहत्तराः ॥ १८२॥ (युग्मम्) धभार मुक्तालंकारा विमलांशुकभृद्विभोः । मूर्धन्येकानना छत्रं 'ज्योत्स्नेव रजनीकरम् ॥ १८३ ॥ धारयामासतु तु पार्श्वयोश्चारुचामरौ । सर्वांगहेमाभैरणे मेरुलेव्यामिवोडणौ ॥ १८४ ॥ तस्थौ वायत्र्यदिश्यका रूप्यशृंगारपाणिका । दिशि दक्षिणपूर्वस्यां तालवृन्तधराऽपरा ॥ १८५ ।। पृष्ठे वैडूर्यदंडानि पांडुच्छन्नाण्यधारयन् । अष्टाग्रसहस्रस्वर्णशलाकान्यमरेश्वराः ॥ १८६ ॥ पार्श्वयोः शिथिकायास्तु सौधर्मशानवासवौ । तोरणस्तंभसदृशौ तस्थतुर्धतचामरौ ॥ १८७ ॥ सहस्रवाह्यामुद्दधुः शिविकामादितो नराः । तप्तः शक्रेशानयलियमराया दिवौकसः॥ १८८ ॥ दक्षिणेनोपरिष्टात्तु शिथिकां शक्र आददे । उपरिष्टादुत्तरेण त्वीशानाधिपतिः स्वयम् ॥ १८९ ॥ १ ते तुल्ये तु 1 11 २ ज्योत्स्नीव C, L || ३ भरण ।। - तट्याथियो , L || .LA .IN 11३८
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy