SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सर्वोऽप्यहमिवाचापि स्वजनः शोकपूरितः । क्षते क्षारं निक्षिपसि स्ववियोगेन किं मयि ॥ १६५॥ एवं च ज्यायसो भ्रातुः सशोकस्योपरोधतः। जगत्पतिर्भावयतिरलंकारैरलंकृतः ।। १६६ ॥ कायोत्सर्गघरो नित्यं ब्रह्मचर्यपरायणः । स्नानांगरागरहितो विशुद्धध्यानतत्परः॥१६७ ॥ एषणीयमासुकानप्राणवृत्तिर्महामनाः । वर्षमेकं कथमपि गृहवासेऽत्यवाहयत् ॥ १६८ ॥ तीर्थ प्रवर्तयेत्युक्तस्ततो लोकान्तिकामरैः । यथाकामितर्थिभ्यो दानं स्वाम्याब्दिकं ददौ ॥ १६९॥ देवैः शक्रादिभिनन्दिवर्धनायैश्च पार्थिवः। दीक्षाभिषको विदधे श्रीवीरस्य यथाविधि ॥ १७ ॥ भ्रातुर्विरहदुःखेन राहुणेन्दुरियाकुलः । स्वानादिदेशेति तदा कथंचिन्नन्दिवर्धनः ॥ १७१ ॥ सुवर्णवेदिकास्तंभां घुसदास्थानिकामिव । संतारकामिव दिवं मुक्तास्वस्तिकलाञ्छिताम् ॥ १७२ ॥ स्वर्णसिंहासनगी साको मेरुतटीमिव । प्रक्वणत्किंकिणीमालां पालकस्यानुजामिव ॥१७३॥ समुच्छलध्वजपटां गंगामिव महोर्मिकाम् । पश्चाशद्धनुरायामां षट्त्रिंशद्धनुरुनताम् ॥ १७४ ॥ पश्चाग्रविंशतिधनुर्विस्तृतां शिविकोत्तमाम् । चन्द्रप्रभाख्यां कुर्वन्तु श्रीवीरस्यासनोचिताम् ॥ १७ ॥ ॥ चतुर्भिः कलापकम् ॥ त्वरितं कारयामासुः शिषिकां तां तथैव ते । राज्ञां हि वचसाऽर्थः स्यान्मनसा द्युसदामिव ॥ १७६ ॥ १कामीनम ॥२ सतारि LI AGRICARXXXKAXXX**** ॥३७॥ *
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy