SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ द्वितीय:स त्रिशलासिद्धार्थराजौ तत्पश्यन्तौ वधूवरम् । धन्यंमन्यौ मुमुदाते पीतामृतरसाविव ॥ १५२॥ समं यशोदया देव्या स्वामी वैषयिकं सुखम् । अनासक्तोऽनुयभूव पित्रोनेत्रनिशाकरः ॥ १५ ॥ कालेन गच्छता भर्तुयशोदायामजायत । नामतो रूपतश्चापि दुहिता प्रियदर्शना ॥ १५४ ॥ महाकुलो राजपुत्रो महार्द्धिनषयौचनः। जमालिः परिणिनायोग्रौवनां प्रियदर्शनाम् ।। १५५ ॥ अष्टाविंशे जन्मतोऽब्दे स्वामिनः पितरावथ । विहितानशनी मृत्वा अग्मतुः कल्पमच्युतम् ॥ १५६ ॥ सिद्धार्थराजत्रिशलाजीवावच्युतरायुती । क्षेत्रेऽपविदेशाबाल्पतः पदमव्ययम् ॥ १५७ ॥ पित्रोः कृतेऽङ्गसंस्कारे तम्रालीत च वासरे । सान्तःपुरं शोकमग्नं स्वाम्यूचे नन्दिवर्धनम् ॥ १५८ ॥ सदा सन्निहितो मृत्युर्जीवितं नश्वरं सदा । उपस्थिते वास्तवेऽस्मिन्न हि शोकः प्रतिक्रिया ॥ १५९॥ धैर्यालंयनपूर्व च धर्मानुष्ठानमेव हि । युज्यत न तु शोकादि भ्रातः ! कापुरुषोचितम् ॥ १६०॥ स्वामिना घोधितश्चैवं स्वस्थोऽभूनन्दिवर्धनः । पित्र्यं राज्यमलं कर्तुं सोऽभ्यर्थयत च प्रभुम् ॥ १६१ ।। पिश्यं राज्यं यदा वीरो भवोद्विग्नो न शिश्रिये । राजा चक्रे तदाऽमात्यैः साग्रहैनन्दिवर्धनः ॥ १६२ ॥ चिरेप्सितपरिव्रज्याग्रहणायाथ सादरः । आपप्रच्छे महावीरो भ्रातरं नन्दिवर्धनम् ॥ १६३ ॥ शोकस्खलितवाग्नन्दिवर्धनोऽप्यन्यधादिति । अपापि पितरौ भ्रातर्गच्छतो विस्मृति न हि ।। १६४ ।। १°मय DU२ बासरे 11॥ ॥३६।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy