________________
द्वितीयःसर
ते मंत्रिणोऽथ सिद्धार्थ नत्वोचुनः क्षमापतिः । प्रदातुं वर्धमानाय यशोदां प्राहिणोत्सुताम् ॥१२६ ॥ अग्रेऽपि भवतो भृत्योऽस्मत्स्वामी स विशेषतः । सम्बन्धनामुना भूयात् प्रसीदानुगृहाण नः ॥ १७ ॥ ऊचे सिद्धार्थराजोऽपि त्रिशलाया ममापि च । मनोरथो भृशमस्ति कुमारोद्वाहलक्षणः ॥ १२८ ।। परं कुमारः संसारविरक्तो जन्मतोऽपि हि । न शक्यते धक्तुमपि विवाहादिप्रयोजने ॥ १२ ॥ तथापि युपरोधाद्वस्तत्तद्वचनभंगिभिः । ब्रूमस्तन्मित्रमुखन विवाहायाध नन्दनम् ॥ १३० ॥ इत्युक्त्वा त्रिशलादेवीमाच्छ्य च महीपतिः । मेषीदुपवर्धमानं तद्वयस्यान महामतीन् ॥ १३१॥ तेऽपि गत्वा सविनयं नमस्कृत्याचचक्षिरे । वर्धमानकुमाराय सिद्धार्थनृपशासनम् ॥ १३२ ॥ भगवानप्युवाचैवं यूयं मदनुगा अपि । मम भावं न जानीथ गृहवासपराङ्मुखम् ॥ १३३॥ तेऽप्यूचुस्त्वां भवोद्विग्नं मन्महे सर्वदापि हि । आज्ञा पित्रोरलंघ्या ते विश्नः परमदोऽपि च ॥ १३४ ॥ किं च नः प्रणययाचा कदाचिन्नावमन्यसे । कथमेकपदे सर्वानस्मानद्यावमन्यसे ॥ १३५ ॥ अथो श्वभाषे भगवान्मूढाः को वोऽयमादरः। परिग्रहो हि दारादेर्भवभ्रमणकारणम् ॥ १३६ ।। मा स्म भूज्जीवतोदुःख मत्पित्रोर्मद्वियोगजम् । इति हेतो धुनैव प्रव्रजाम्युत्सुकोऽपि हि ॥ १३७॥ एवं प्रभौ भाषमाणे विवाहाय नृपाज्ञया । स्वामिनी त्रिशलादेवी स्वयं तत्र समाययौ ॥ १३८ ॥ पति . M. || २ तु D. AM ||
॥३४॥