________________
वर्धमान इत्यभिख्या सूनोरस्य तदस्तु भोः । प्रत्यभाषि प्रमुदितैरेवमस्त्विति तैरपि ॥ २९ ॥ युग्मम् ) महोपसर्गेरप्येष न कंप्य इति वज्रिणा । महावीर इत्यपरं नाम चक्रे जगत्पतेः ॥ १०० ॥ सोsकिया भक्तैः सेव्यमानः सुरासुरैः । दृशा पीयूषवर्षिण्या सिश्चनिव वसुन्धराम् ॥ १०१ ॥ अष्टोत्तरसहस्रेण लक्षणैरुपलक्षितः । निसर्गेण गुणैर्वृद्धो वयसा ववृधे क्रमात् ॥ १०२ ॥ राजपुत्रैः सवयोभिः समं न्यूनाष्टवत्सरः । वयोऽनुरूपीडाभिः सोऽन्यदा क्रीडितुं ययौ ॥ १०३ ॥ तदा ज्ञात्वाऽवधिज्ञानान्मध्येसुरसभं हरिः । धीरा अनुमहावीरमिति वीरमवर्णयत् ॥ १०४ ॥ क्षोभयिष्यामि तं वीरमेषोऽहमिति मत्सरी । आजगामामरः कोऽपि यत्र श्रीडन्नभूद्विभुः ॥ १०५ ॥ कुर्वत्यामलकीं क्रीडां राजपुत्रैः सह प्रभौ । सोऽवस्तस्थौ विपिनो भुजगीभूय मायया ॥ १०६ ॥ तत्काल राजपुत्रेषु वित्रस्तेषु दिशो दिशि । स्मित्वा रज्जुमिवोत्क्षिप्य नं चिक्षेप क्षितौ त्रिभुः ॥ १०७ ॥ सत्रीडाः क्रीडितुं तत्र कुमाराः पुनराययुः । कुमारीभूय सोऽन्यागात् सर्वेऽप्यारुरुहुस्तरुम् ॥ १०८ ॥ पादपाग्रं कुमारभ्यः प्राप प्रथमतः प्रभुः । यद्वा कियदिदं तस्य यो लोकाग्रं गमिष्यति ॥ १०९ ॥ शुशुभे भगवांस्तत्र मेरुशृंग इवार्यमा । लम्यमाना वभुः शाखास्वन्ये शाखामृगा इव जिग्ये भगवता तत्र कृतश्चासीदयं पणः । जयेद्य इह स अन्यान् पृष्ठमारुह्य वाहयेत् आरुह्यावा हयद्वाहानिव वीरः कुमारकान् । आरुरोह सुरस्यापि पृष्ठे पृष्ठो महौजसाम् ॥
॥
॥
११० ॥
१११ ॥
११२ ॥
द्वितीयः स
||३२|