________________
दिक्षु प्रसना स्वोश्वस्थेषु ग्रहेषु च । प्रदक्षिणेऽनुकूले भूमिसर्पिणि मारुते ॥ ४९ ॥ प्रमोदपूर्ण जगति शकुनेषु जयिष्बलम् । अर्घाष्टमदिनाग्रेषु मासेषु नवसूच्चकैः ॥ २० ॥ शुचयोदश्यां चन्दे हस्तोत्तगगते । सिंहांकं काञ्चनरुचिं स्वामिनी सुपुत्रे सुतम् ॥ ५१ ॥
॥ त्रिभिर्विशेषकम् ॥
षट्पञ्चाशदिक्कुमार्योऽभ्येत्य भोगंकरादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ॥ ५२ ॥ शक्रोऽप्यासनकंपेन तत्कालं सपरिच्छदः । विज्ञाय स्वामिनो जन्म सूतिकागृहमाययौ ॥ ५३ ॥ अर्हन्तमर्हदम्बां च दुरतोऽपि प्रणम्य सः । उपसृत्यागतो देव्यांश्चावस्वापनिकां ददौ ॥ ५४ ॥ देव्याः पार्श्वे च भगवत्प्रतिरूपं निधाय सः । विचके पञ्चधाऽऽत्मानमतृप्तो भक्तिकर्मणि ॥ ५५ ॥ एकः शक्रः स्वपाणिभ्यां भगवन्तमुपाददे । उपरि स्वामिनच्छन्नं द्वैतीयीकरुत्वधारयत् ॥ ५६ ॥ स्वामिनः पार्श्वयो तु विभ्रतुश्रारुचामरे । वज्रमुल्लालयन्नन्यो नृत्यंश्च पुरतो ययौ ॥ ५७ ॥ गत्वा मेरातिपांडु लामासदच्छिलाम् । तत्र सिंहासनं भेजे शक्रोऽङ्कारोपितप्रभुः ॥ ५८ ॥ तदानपयितुं नाथं त्रिषष्टिरपरेऽपि हि । एयुरिन्द्रा आभियोग्यैस्तीर्थाऽऽनायितवारयः ॥ ५९ ॥ इयन्तं वारिसंभारं कथं स्वामी सहिष्यते । इत्याशशंके शक्रेण भक्तिकोमलचेतसा ॥ ६० ॥
I
१८५२ पत्वा C D
द्वितीयः स
॥२८॥