SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ द्वितीयः MYLOYM.. मायया स्त्रीजन्मसहचारिण्याप्यकलंकिता । सा निसर्गऋजुर्देवी मुगृहीताभिधा मुधि ॥ २३ ॥ सा चास्ति सांप्रतं गुर्वी कार्यः संचारणाद् द्रुतम् । तस्या देवानन्दायाश्च गर्भयोर्व्यत्ययो मया ॥ २४ ॥ विमृश्यैवं शतमखः समाय झगित्यपि । आदिदेश तथा कर्तुं सेनान्यं नैगमेषिणम् ॥ २० ॥ विदधे नैगमेषी च तथैव स्वामिशासनम् । देवानन्दानिशलयोर्गर्भव्यत्ययलक्षणम् ॥ २६॥ देवानन्दा ब्राह्मणी सा शयिता पूर्ववीक्षितान् । मुखान्निःसरलोऽद्राक्षीन्महास्वमांश्चतुर्दश ।। २७ ॥ उत्थाय वक्ष आनाना निःस्थामा ज्वरजर्जरा । केनापि जरे में गर्भ इति चुक्रोश सा चिरम् ॥ २८ ॥ कृष्णाश्चिनत्रयोदश्यां चन्द्र स्तोतरास्थिते ! म देवस्त्रिशलाग. स्वामिनं निभृतं न्यधात् ॥ २९ ॥ गजो वृषो हरिः साभिषेकश्रीः स्रक् शशी रविः। महाध्वजः पूर्णकुंभः पद्मसरः सरित्पतिः ॥ ३०॥ विमान रनपुंजश्च निधूमोऽग्निरिति क्रमात् । ददर्श स्वामिनी स्वप्नान्मुखे प्रविशतस्तदा ॥ ३१ ॥ इन्द्रैः पत्या च तज्ज्ञैश्च तीर्थवजन्मलक्षणे । उदीरिते स्वमफले त्रिशला देव्यमोदत ॥ ३२॥ दधार त्रिशलादेवी मुदिता गर्भमद्भुतम् । अप्रमत्त विहरन्ती लीलासदनभूष्वपि ॥ ३३ ॥ गर्भस्थेऽथ प्रभो शकाऽऽजया जुंभकनाकिनः। भूयो भूयो निधानानि न्यधुः सिद्धार्थवेश्मनि ॥ ३४ ॥ सर्व ज्ञातकुलं भूरिधनधान्याविऋद्धिभिः। गर्भावतीर्णभगवत्प्रभावावृधेतराम् ॥ ३५ ॥ १-२ नेग । २ व्य ८ ॥ ዘኛ፡
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy