SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ इक्ष्वाकुवंशप्रभृतिक्षत्रवंशेषु किं त्वमी । जायन्ते पुरुषसिंहा मुक्ताः शुक्त्यादिकेष्विव ॥१०॥ तदसंगतमापनं जन्म नीचकुले प्रभोः । प्राच्य कर्मान्यथा कर्तुं यद्वार्हन्तोऽपि नेशते ॥ ११ ॥ मरीचिजन्मनि कुलमदं नाथेन कुर्वता । अर्जितं नीचकैर्गोत्रकर्माद्यापि युपस्थितम् ॥ १२ ॥ कर्मवशानीचकुलेषूत्पन्नानहतोऽन्यतः । क्षेप्तुं महाकुलेऽस्माकमधिकारोऽस्ति सर्वदा ॥१३॥ कोऽधुनास्ति महावंश्यो राजा राज़ी च भारते । यत्र संचार्यते स्वामी कुन्दाद् भुंग इवांबुजे ॥१४॥ ज्ञातमस्तीह भरते महीमंडलमंडनम् । क्षत्रियकुंडग्रामाख्यं पुरं मत्पुरसोदरम् ॥ १५ ॥ स्थानं विविधचैत्यानां धर्मस्य निबन्धनम् । अन्यायैरपरिस्पृष्टं पवित्रं तच साधुभिः ।। १६॥ मृगयामद्यपानादिव्यसनाऽस्पृष्टनागरम् । तदेव भरतक्षेत्रपावन तीर्थवद् भुवः ॥ १७ ॥ तत्रैवाको ज्ञातवंश्यः सिद्धार्थोऽस्ति महीपतिः । धर्मेणैव हि सिद्धार्थ सदाऽऽत्मानमर्मस्त यः॥१८॥ जीवाजीवादितत्त्वज्ञो न्यायवर्तीमहाध्वगः । प्रजाः पथि स्थापयिता हितकामी पितेव सः॥१९॥ दीनानाथादिलोकानां समुद्धरणबान्धवः । शरण्यः शरणेच्छूनां स क्षत्रियशिरोमणिः ।। २० ॥ तस्यास्ति त्रिशला नाम सतीजनमतल्लिका । पुण्यभूरग्रमहिषी महनीयगुणाकृतिः॥ २१ ॥ निसर्गतो निर्मलया तत्तद्गुणतरंगया । तया पवित्र्यते धात्री मन्दाकिन्येव संप्रति ॥ २२ ॥ ॥२५॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy