SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वितीयः सर्गः ॥ *** इतश्च जंबूद्वीपेऽस्मिन् क्षेत्रेऽस्ति भरताभिये । ब्राह्मणकुंडग्रामाख्यसंनिवेशो द्विजन्मनाम् ॥ १ ॥ तंत्र वर्षमदत्तोऽभूत् कौडालसकुलो द्विजः । देवानन्दा च तद्भार्या जालन्धरकुलोद्भवा ॥ २ ॥ च्युत्वा च नन्दनो हस्तोत्तरर्क्षस्थे निशाकरे । आषाढस्य श्वेतषष्ट्यां तस्याः कुक्षाववातरत् ॥ ३ ॥ देवानन्दा सुखसुप्ता महास्वमांश्चतुर्दश । ददर्श प्रातराख्यच पत्ये सोऽपि व्यचारयत् ॥ ४ ॥ age छन्दसां पारवा परमनैष्ठिकः । सूनुर्भवत्या भविता स्वतैरेभिर्न संशयः ॥ ५ ॥ देवानन्दा गर्भगते प्रभौ तस्य द्विजन्मनः । बभूव महती ऋद्धिः कल्पद्रुम इवागते ॥ ६ ॥ तस्या गर्भस्थिते नाथे यशीतिदिवसात्यये । सौधर्मकल्पाधिपतेः सिंहासनमकंपत || ७ | चावधिना देवानन्दागर्भगतं प्रभुम् । सिंहासनात् समुत्थाय शक्रो नत्वेत्यचिन्तयत् ॥ ८ ॥ 3 त्रिजगद्गुरवोऽर्हन्तो नोत्पद्यन्ते कदाचन । तुच्छकुले रोरकुले भिक्षावृत्तिकुलेऽपि वा ॥ ९ ॥ १ यः CD ॥ २ कोडा CD ॥ ** द्वितीयः स ॥२४||
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy