SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ एवं तैरमरैरुक्तः स गत्वा मज्जनौकसि । सिंहासने सांघ्रिपीठे निषसादामराग्रणीः || २७७ || दिव्येन पयसा तत्राभिषिक्तः कुंभपाणिभिः । निन्ये च किंकरसुरैः सोऽलंकार निकेतनम् || २७८ ॥ देवदृष्ये न्यधागे वाससी राज सोऽमरः । अंगरागं भूषणानि किरो:प्रभृतीनि च ॥ २७९ ॥ व्यवसायसभां गत्वाऽवाचयत्पुस्तकं च सः । पुष्पादिपूजामादाय सिद्धालय मियाय च ॥ २८० ॥ अष्टोत्तरात्प्रतिमाशतं स्वपयति स्म सः । आनर्च च ववन्दे च तुष्टाव च समाहितः ॥ २८९ ॥ गत्वा सुधर्मामास्थानी संगीतकमकारयत् । विमाने तत्र भोगांश्च भुञ्जानोऽस्थायथारुचि ॥ २८२ ॥ कल्याणकेवर्हतां स विदेहादिषु भूमिषु । अगाजिनान् ववन्दे च सम्यकत्वगुणभूषणः || २८३ || आयुर्विंशतिसागरोपममितं सोऽपूरि देवाग्रणीः, पर्यन्तेऽपि विशेषतः प्रतिकलं देदीप्यमानः श्रिया । मुयन्ति परे त्रिविष्टपसदः षण्मासशेषायुषः, काप्युच्चैर्न तु तीर्थकृद्दिविषदोऽत्यासन्नपुण्योदयाः ॥ २८४॥ इत्याचार्यश्री हेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमे पर्वणि श्रीमहावीरपूर्वभव वर्णनो नाम प्रथमः सर्गः ॥ १ "बीरचरिते पू 1), ॥२३॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy