SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अन्यद्वपुरिदं तावदन्यद्वान्यधनादिकम् । बन्धवोऽन्येऽन्यश्च जीवो वृथा मुह्यति बालिशः ॥ २५२ ॥ वारुधिरमांसास्थिय कृद्विण्मूत्रपूरिते । वपुष्यशुचिनिलये मूर्च्छा कुर्वीत कः सुधीः ॥ २५३ ॥ अवक्रयात्तवेश्मेव मोक्तव्यमचिरादपि । लालितं पालितं वाऽपि विनश्वरमिदं वपुः || २५४ ॥ धीरेण कातरेणापि मर्तव्यं खलु देहिना । तन्त्रियेत तथा धीमान्न म्रियेत यथा पुनः ।। २५५ ॥ अर्हन्तो मम शरणं शरणं सिद्धसाध्यः । उदीरितः केवलिभिर्धर्मः शरणमुच्चकैः ॥ २५६ ॥ जिन मम माता गुरुरुतातोऽथ सोदराः । साधवः साधर्मिकाश्च बन्धवोऽन्यत्तु जालवत् ॥ २२७ ॥ ऋषभादींस्तीर्थकरान्नमस्याम्यखिलानपि । भरतैरावतविदेहातोऽपि नमाम्यहम् ॥ २५८ ॥ Arya नमस्कारो देहभाजां भवच्छिदे । भवति क्रियमाणः स बोधिलाभाय चोचकैः ॥ २५९ ॥ सिद्धेभ्यश्च नमस्कारं भगवद्भयः करोम्यहम् । कर्मैधोऽदाहि यैर्ध्यानाग्निना भवसहस्रजम् ॥ २६० ॥ आचार्येभ्यः पञ्चविधाचारेभ्यश्च नमो नमः । यैर्धार्यते प्रवचनं भवच्छेदे सदोद्यतैः ॥ २६१ ॥ तं विभ्रति सर्व शिष्येभ्यो व्याहरन्ति च । नमस्तेभ्यो महात्मभ्य उपाध्यायेभ्य उच्चकैः ॥ २६२ ॥ शीलव्रतसनाथेभ्यः साधुभ्यश्च नमो नमः । भवलक्षसन्निबद्धं पापं निर्नाशयन्ति ये ॥ २६३ ॥ सावयं योगमुपधिं श्राह्यमाभ्यन्तरं तथा । यावज्जीवं त्रिविधेन त्रिविधं व्युत्सृजाम्यहम् || २६४ || ॥२१॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy