SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ षड्जीवनिकायनाता सप्तमीस्थानवर्जितः। विमुक्ताष्टमदस्थानः स नवब्रह्मगुप्तिकः ॥ २२६ ॥ दधदशविधं धर्म सम्यगेकादशाङ्गभृत् । तपो द्वादशधा कुर्वन् द्वादशप्रतिमारुचिः ॥ २२७॥ दुःसहामपि सहिष्णुः परीषहपरंपराम् । निरीहो नन्दनमुनिवर्षलक्षं तपोऽकरोत् ॥ २२८ ॥ ॥सप्तभिः कुलकम् ॥ अर्हद्भक्त्यादिभिः स्थानविशत्यापि महातपाः । दुरर्जमर्जयामास तीर्थकृन्नामकर्म सः ॥२२९॥ स निष्कलंक श्रामण्यं चरित्वा भूलतोऽपि हि । आयुःपर्यन्तसमये व्यधादाराधनामिति ॥ २३० ॥ ज्ञानाचारोऽष्टया प्रोक्तो यः कालविनयादिकः । तत्र मे कोऽप्यतीचारो योऽभून्निन्दामि तं त्रिधा ॥२३॥ यः प्रोक्तो दर्शनाचारोऽष्टधा निःशंकिताविकः । तत्र मे योऽतिचारोऽभूत्रिधापि व्युत्सृजामि तम् ॥२३२॥ या कृता प्राणिनां हिंसा सूक्ष्मा पा पावरापि वा। मोहाद्वा लोभतो वापि व्युत्सृजामि त्रिधापि ताम् २३३ हास्यभीलोभक्रोधाधैर्यन्मृषा भाषितं मया। तत्सर्वमपि निन्दामि प्रायश्चित्तं चरामि च ॥ २३४॥ अल्प भूरि च यत्क्वापि परद्रव्यमदत्तकम् । आत्तं रागादथ द्वेषात्तत्सर्व व्यत्सृजाम्यहम् ॥ २३६ ॥ तैरश्चं मानुषं दिव्यं मैथुनं मयका पुरा । यत्कृतं त्रिविधेनापि त्रिविधं व्युत्सृजामि तत् ।। २३६ ॥ . बहुधा यो धनधान्यपश्वादीनां परिग्रहः । लोभदोषान्मयाऽकारि व्युत्सृजामि त्रिधापि तम् ॥ २३७॥ ॥१९
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy