________________
| प्रथम: सर
MVW
H YLMM/VikaMAVM-4H----
सेनान्या साधयित्वा च द्वितीयं गांगनिष्कुटम् । जितषखंडविजयश्चक्री मूकां पुरीं ययौ ॥२१॥ चक्रभृत्त्वाभिषेकोऽस्य पके द्वादशवार्षिकः । अमरैवरैश्चापि महोत्सवपुरःसरम् ॥ २१ ॥ नीत्या पालयतस्तस्य पृथिवीं पृथिवीपतेः। एकदा पोटिलाचार्य उद्याने समवासरत् ।। २१४ ॥ धर्म तदन्तिके श्रुत्वा राज्ये न्यस्य स्वमात्मजम् । स प्रवनाज तेपे च वर्षकोटीं तपः परम् ॥ २१५ ॥ पूर्वलक्षचतुरशीत्यायुः संन्यासपूर्वकम् । मृत्वा शुक्र स सदाविमान निदशोऽभवत् ॥ २१६ ॥ कयुत्वेह भरते छत्रायां पुर्या जितशत्रुतः। भद्रादेव्यां सोऽजनिष्ट नन्दनो नाम नन्दनः ॥ २१७॥ तं न्यस्योयौवनं राज्ये जितशत्रुर्महीपतिः। संसारवासनिर्विषणः परिव्रज्यामुपाददे ॥ २१८ ॥ लोकानां हृदयानन्दो नन्दनोऽपि वसुन्धराम् । यथाविधि शशासनां पाकशासनशासनः ॥ २१९॥ चतुर्विशत्यदलक्षी जन्मतोऽतीत्य नन्दनः । विरक्तः पोटिलाचार्यसमीपे व्रतमावदे ॥ २२०॥ मासोपवासः सततैः श्रामण्यं स प्रकर्षयन् । व्यहार्षीद गुरुणा सार्धं ग्रामाकरपुरादिषु ॥ २२१ ।। उभाभ्यामपध्यानाभ्यां बन्धनाभ्यां च वर्जितः। त्रिभिर्दडैौरवैश्व शल्यैश्च रहितः सदा ॥ २२२ ।। पक्षीणचतुष्कषायश्चतुःसंज्ञाविवर्जितः। चतुर्विकथारहितश्चतुर्धर्मपरायणः ॥२२३॥ चतुर्विधैरुपसर्गरपरिस्खलितोद्यमः । व्रतेषु पञ्चसूद्युक्तो द्वेषी कामेषु पञ्चसु ॥ २२४ ॥ पञ्चप्रकारस्वाध्यायप्रसक्तः प्रतिवासरम् । विभ्राणः समितीः पञ्च जेता पञ्चन्द्रियाणि च ॥ २२५ ॥
NCERXXXAM CACAXARAK
॥१दा