________________
कृताष्टमस्य प्रत्यक्षीभूय सिन्धुर्महीपतेः । रनभद्रासने दिव्य प्रददौ भूषणानि च ॥ १९९ ॥ तां विसृज्य स वैताख्यं चक्ररत्नानुगो ययौ । वैताख्याद्रिकुमारं चासाधयद्विहिसाष्टमः ॥ २०० ॥ गतस्याभितमिस्र चाष्टमस्थस्य महीपतेः । कृतमालः स्त्रीरत्नाईमन्यच्चाभरणं ददौ ॥ २०१॥ उत्तीर्य चर्मणा सिन्धुं सेनानीश्चक्रिशासनात् । लीलया साधयामास सिन्धोः प्रथमनिष्कुटम् ॥ २०२॥ भूयोऽप्यभ्येत्य सेनानीः प्रियमित्रस्य शासनात् । कृताष्टमो दंडघातात्तमिस्रामुदघाटयत् ॥ २०३ ॥ चक्रयारूदो गजरत्नं तत्कुंभे न्यस्य दक्षिणे । मणिरत्नं प्रकाशाय तमिस्रां प्रायिशद् गुहाम् ॥ २०४॥ काकिण्या मंडलान्यर्कमंडलाभानि पार्श्वयोः । लिखन् गुहायां द्योताय चक्री चक्रानुगो ययौ ॥ २०५॥ पद्ययोन्मग्नानिमग्ने नद्यो तीमहीपतिः । स्वयमुद्धटितेनोदग्द्वारेण निरयादिरेः ॥ २०६॥ आपातनानः किरातानजेषीत्तत्र चक्रभृत् । असाधयच्च सेनान्या द्वितीय सिंधुनिष्कुटम् ॥ २०७॥ चक्रानुगो निवृत्याय भूपो वैताट्यमभ्यगात् । वशीचक्रे द्वयोः श्रेण्योस्तत्र विद्याधरांश्च सः ॥ २०८ ॥ साधयित्वा स सेनान्या गांगं प्रथमनिष्कुटम् । स्वयमष्टमभक्तेन गंगादेवीमसाधयत् ॥ २०९॥ खंडमपातया सेनान्युद्धाटितकपाटया। वैताख्यार्निर्जगाम ससैन्योऽपि महीपतिः ॥ २१०॥ अथाष्टमतपःस्थस्य प्रियमित्रस्य चक्रिणः। नवापि निधयोऽभूवनैसर्पाद्या वशंवदाः ॥ २११ ॥ २ 'रगा C॥ २ भूयो C॥
॥१७