________________
स्वाम्यूचे तव रत्नानि चक्रादीनि न सन्ति भोः ! । विनैकेनापि रत्नेन चक्रभृन्नाम दुर्घटम् ॥ ४१४ ॥ तच्छुत्वोत्थाय पेशो महाऽहंकार पर्वतः । एकेन्द्रियाणि लौहानि महारत्नान्यकारयत् ॥ ४१५ ॥ पद्मावत स स्त्री रत्नानी भाविकान्यपि । सोऽल्पधीः कल्पयामास मनोरथकदर्पितः ॥ ४१६ ॥ साधयन् भरतक्षेत्रं कूणिकोऽसत्यविक्रमः । क्रमेण वैताढ्यगुहां तमिस्रामासदद्वलैः || ४१७ ॥ अनात्मज्ञः स उन्मत्त इव दुर्दैवदूषितः । गुहाद्वारकपादानि दंडेन त्रिरताडयत् ॥ ४१८ ॥ कृनमालामरः प्रोचे तद्गुहाद्वाररक्षकः । मुमूर्षुः कोऽयमाहन्ति गुहाद्वारमनात्मवित् ॥ ४१९ ।। कूणिकोऽभ्यवदत् किं मां जिगीपुं वेत्सि नागतम् ? | अशोकचन्द्रनामाऽहमुत्पन्नश्ववर्त्यहो || ४२० ॥ कृतमालामरः स्माह चक्रिणो द्वादशाभवन् । अप्रार्थितप्रार्थकोऽसि बुध्यस्व स्वस्ति तेऽस्तु भोः ॥ ४२१ ॥ कूणिकोऽपि भाणैवमहं चत्री प्रयोदशः । उत्पन्नः कृतपुण्योऽस्मि पुण्यैः किं नाम दुर्लभम् ॥ ४२२ ॥ पराक्रमं न मे वेत्सि कृतमाल ! गुहामिमाम् । कुरुष्व विततद्वारामन्यथा न भवस्य हो || ४२३ ॥ आधिदैविकदोषात्तमिवासंबद्धभाषिणम् । कूणिकं कृतमालो द्राग्रोषादकृत भस्मसात् ॥ ४२४ ॥ अशोकचन्द्रो राजैवं विषय नरकावनिम् । षष्ठीमियाय वचनं ह्यर्हतां जातु नान्यथा ॥ ४२५ || आलेख्यशेषतां प्राप्ते कूणिके तु तदात्मजम् । सर्वे प्रधानपुरुषा राज्ये न्यधुरुवायिनम् ॥ ४२६ || उदारयपि प्रजां न्याय्यवर्त्मना पर्यपालयत् । अखंडशासनः पृध्यां प्रथयन् जैनशासनम् ॥ ४२७ ॥
२'
Xxxx
द्वादवाः सर्गः
॥ ३८०