SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ क्रोधमाममायालोभाभिभूतेन मया सदा । कृतं यच्च हिंसादि तत्त्रिधापि धिगस्तु मे ॥ ४०१॥ एवमाराधनां कृत्वा नमस्कारपरायणः । विपद्य चेटकः स्वर्गसुखभाजनतां ययौ ॥ ४०२॥ अशोकचन्द्रोऽपि धुरीत हलयुक्तरसमः । खयित्वा क्षेत्रमिव स्वां प्रतिज्ञामपूरयत् ॥ ४०३ ॥ ती प्रतिज्ञा चंपेशो दुस्तरामापगामिव । जगाम चंपानगरीमुत्सवेन गरीयसा ॥ ४०४॥ अन्यदा पाबयन पृथ्वीं विहारेण जगद्गुरुः। जगाम चंपां श्रीवीरस्तत्रैव समवासरत् ॥ ४०५॥ श्रीवीरस्वामिनः पाश्चें तत्र कालादिमातरः। विरक्ताः सूनुनिधनात् प्रानजणिकप्रियाः॥ ४०६॥ त्रलोक्यसंशयच्छेदकारकं परमेश्वरम् । वन्दितुं तत्र समवसरणे कूणिकोऽप्यगात् ।। ४०७ ॥ नत्या नाथं यथास्थानमुपविश्याथ कूणिकः । पप्रच्छ लब्धावसरः शिरस्यारचिताञ्जलिः ॥ ४०८॥ आजन्माप्यपरित्यक्तकामभोगा भवन्ति ये । कां नाम ते गति यान्ति चक्रिणः परमेश्वर ! ॥ ४०९॥ स्वाम्याख्याते हि गच्छन्ति सप्तमी नरकावनिम् । पप्रच्छ कूणिको भूयो भाविनी मम का गतिः? ॥४१॥ आचख्यो भगवान् षष्ठी नरकोबी गमिष्यसि । कूणिकः स्माह किमहं न हि यास्यामि सप्तमीम् ॥४११॥ भगवानप्युवाचैवं चक्रवत्येव न स्यसि । सति धर्मिणि धर्मा हि चिन्त्यन्ते श्रेणिकात्मज ॥ ४१२।। अपृच्छत् कूणिकः किं न चक्रयहं परमेश्वर ! । ममापि चक्रितुल्याऽस्ति चतुरंगा वरूथिनी ॥ ४१३ ॥ ॥५ -MAKACITORIAARAKAKAR -- ॥३७९
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy