SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ केनाप्योपथिकनेदं स्तूपमुत्थाप्यते यदि । तदा भज्येत वैशाली नाऽन्यथा वज्रिणाऽपि हि ॥ ३७४ ॥ चिन्तयन्निति यम्राम वैशाल्यां कूलवालकः । अपृच्छयत च तल्लोकैः पुरीरोधकवर्थितः ॥ ३७५ ॥ वयं भदन्त ! दान्ताः स्मः पुरीरोधेन विद्विषा । यदि वेत्सि तदाऽऽख्याहि कदोद्वेष्टो भविष्यति ? ॥३७६॥ सोऽवदद्वेम्यहं सम्यग्यावत् स्तूपमिहास्त्यवः । नगर्यास्तावदुद्वेष्टो न भविष्यति हे जनाः ॥ ३७७ ॥ स्तृपेऽस्मिन् भज्यमानेऽपि भावी प्रत्यय एष वः। द्विट्सैन्यं वार्दिवेलेवाकस्मादपसरिष्यति ॥ ३७८ ॥ उत्कीलिते समन्तात्तु स्तूपे स्वस्त्यस्तु वो जनाः । कुलग्ने स्थापितमिदं मा मोहमिह यात भोः॥ ३७९ ॥ सं स्तूपं भक्तुमारेभे धूर्तधीवश्चितो जनः । सुखप्रसार्यः प्रायेण सर्वोऽपि व्यसनार्दितः ॥ ३८० ॥ भंक्तुमारब्धमानेऽपि स्तुपे मागाधिकापतिः । गत्वाऽपसारयामास द्विकोशीमथ कूणिकम् ॥ ३८१ ॥ उत्पन्नमत्ययो लोकस्तं स्तूपं कूपभेकधीः । कूर्मन्यासशिलां यावन्निर्मूलमुदमूलयत् ॥ ३८२ ॥ यभन्न द्वादशानान्ते वैशाली कणिकस्ततः । स्तपस्यैव प्रभावोऽभूत पुरा हि दरतिक्रमः॥ ३८३॥ विरराम तदा चंपावैशालीनाथयो रणः । एतस्यामवसर्पिण्यामीशो न कदाऽप्यभूत् ॥ ३८४ ।। भाणयामास वैशालीपतिं चंपापतिस्तदा। आर्य चेटक पूज्योऽसि किं करोमि तव प्रियम् ? ॥ ३८५॥ घेटकोऽपि विषण्णात्मा कूणिक प्रत्यभाणयत् । जयोत्सवोत्सुकोऽपि स्वं विलंब्य प्रविशेः पुरीम् ॥ ३८६ ॥ "राम" ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy